सना॑ च सोम॒ जेषि॑ च॒ पव॑मान॒ महि॒ श्रव॑।अथा॑ नो॒ वस्य॑सस्कृधि॥ ९.००४.०१
सना॒ ज्योति॒ सना॒ स्वर्विश्वा॑ च सोम॒ सौभ॑गा।अथा॑ नो॒ वस्य॑सस्कृधि॥ ९.००४.०२
सना॒ दक्ष॑मु॒त क्रतु॒मप॑ सोम॒ मृधो॑ जहि।अथा॑ नो॒ वस्य॑सस्कृधि॥ ९.००४.०३
पवी॑तारः पुनी॒तन॒ सोम॒मिन्द्रा॑य॒ पात॑वे।अथा॑ नो॒ वस्य॑सस्कृधि॥ ९.००४.०४
त्वं सूर्ये॑ न॒ आ भ॑ज॒ तव॒ क्रत्वा॒ तवो॒तिभि॑।अथा॑ नो॒ वस्य॑सस्कृधि॥ ९.००४.०५
तव॒ क्रत्वा॒ तवो॒तिभि॒र्ज्योक्प॑श्येम॒ सूर्य॑म्।अथा॑ नो॒ वस्य॑सस्कृधि॥ ९.००४.०६
अ॒भ्य॑र्ष स्वायुध॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम्।अथा॑ नो॒ वस्य॑सस्कृधि॥ ९.००४.०७
अ॒भ्यर्षान॑पच्युतो र॒यिं स॒मत्सु॑ सास॒हिः।अथा॑ नो॒ वस्य॑सस्कृधि॥ ९.००४.०८
त्वां य॒ज्ञैर॑वीवृध॒न्पव॑मान॒ विध॑र्मणि।अथा॑ नो॒ वस्य॑सस्कृधि॥ ९.००४.०९
र॒यिं न॑श्चि॒त्रम॒श्विन॒मिन्दो॑ वि॒श्वायु॒मा भ॑र।अथा॑ नो॒ वस्य॑सस्कृधि॥ ९.००४.१०