प्र सोमा॑सो विप॒श्चितो॒ऽपां न य॑न्त्यू॒र्मय॑।वना॑नि महि॒षा इ॑व॥ ९.०३३.०१

अ॒भि द्रोणा॑नि ब॒भ्रव॑ शु॒क्रा ऋ॒तस्य॒ धार॑या।वाजं॒ गोम॑न्तमक्षरन्॥ ९.०३३.०२

सु॒ता इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्य॑।सोमा॑ अर्षन्ति॒ विष्ण॑वे॥ ९.०३३.०३

ति॒स्रो वाच॒ उदी॑रते॒ गावो॑ मिमन्ति धे॒नव॑।हरि॑रेति॒ कनि॑क्रदत्॥ ९.०३३.०४

अ॒भि ब्रह्मी॑रनूषत य॒ह्वीरृ॒तस्य॑ मा॒तर॑।म॒र्मृ॒ज्यन्ते॑ दि॒वः शिशु॑म्॥ ९.०३३.०५

रा॒यः स॑मु॒द्राँश्च॒तुरो॒ऽस्मभ्यं॑ सोम वि॒श्वत॑।आ प॑वस्व सह॒स्रिण॑॥ ९.०३३.०६