प्र सोमा॑सो मद॒च्युत॒ श्रव॑से नो म॒घोन॑।सु॒ता वि॒दथे॑ अक्रमुः॥ ९.०३२.०१

आदीं॑ त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः।इन्दु॒मिन्द्रा॑य पी॒तये॑॥ ९.०३२.०२

आदीं॑ हं॒सो यथा॑ ग॒णं विश्व॑स्यावीवशन्म॒तिम्।अत्यो॒ न गोभि॑रज्यते॥ ९.०३२.०३

उ॒भे सो॑माव॒चाक॑शन्मृ॒गो न त॒क्तो अ॑र्षसि।सीद॑न्नृ॒तस्य॒ योनि॒मा॥ ९.०३२.०४

अ॒भि गावो॑ अनूषत॒ योषा॑ जा॒रमि॑व प्रि॒यम्।अग॑न्ना॒जिं यथा॑ हि॒तम्॥ ९.०३२.०५

अ॒स्मे धे॑हि द्यु॒मद्यशो॑ म॒घव॑द्भ्यश्च॒ मह्यं॑ च।स॒निं मे॒धामु॒त श्रव॑॥ ९.०३२.०६