प्र सोमा॑सः स्वा॒ध्यः पव॑मानासो अक्रमुः।र॒यिं कृ॑ण्वन्ति॒ चेत॑नम्॥ ९.०३१.०१
दि॒वस्पृ॑थि॒व्या अधि॒ भवे॑न्दो द्युम्न॒वर्ध॑नः।भवा॒ वाजा॑नां॒ पति॑॥ ९.०३१.०२
तुभ्यं॒ वाता॑ अभि॒प्रिय॒स्तुभ्य॑मर्षन्ति॒ सिन्ध॑वः।सोम॒ वर्ध॑न्ति ते॒ मह॑॥ ९.०३१.०३
आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑ सोम॒ वृष्ण्य॑म्।भवा॒ वाज॑स्य संग॒थे॥ ९.०३१.०४
तुभ्यं॒ गावो॑ घृ॒तं पयो॒ बभ्रो॑ दुदु॒ह्रे अक्षि॑तम्।वर्षि॑ष्ठे॒ अधि॒ सान॑वि॥ ९.०३१.०५
२
स्वा॒यु॒धस्य॑ ते स॒तो भुव॑नस्य पते व॒यम्।इन्दो॑ सखि॒त्वमु॑श्मसि॥ ९.०३१.०६