प्र धारा॑ अस्य शु॒ष्मिणो॒ वृथा॑ प॒वित्रे॑ अक्षरन्।पु॒ना॒नो वाच॑मिष्यति॥ ९.०३०.०१
इन्दु॑र्हिया॒नः सो॒तृभि॑र्मृ॒ज्यमा॑न॒ कनि॑क्रदत्।इय॑र्ति व॒ग्नुमि॑न्द्रि॒यम्॥ ९.०३०.०२
आ न॒ शुष्मं॑ नृ॒षाह्यं॑ वी॒रव॑न्तं पुरु॒स्पृह॑म्।पव॑स्व सोम॒ धार॑या॥ ९.०३०.०३
प्र सोमो॒ अति॒ धार॑या॒ पव॑मानो असिष्यदत्।अ॒भि द्रोणा॑न्या॒सद॑म्॥ ९.०३०.०४
अ॒प्सु त्वा॒ मधु॑मत्तमं॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः।इन्द॒विन्द्रा॑य पी॒तये॑॥ ९.०३०.०५
सु॒नोता॒ मधु॑मत्तमं॒ सोम॒मिन्द्रा॑य व॒ज्रिणे॑।चारुं॒ शर्धा॑य मत्स॒रम्॥ ९.०३०.०६