प्रास्य॒ धारा॑ अक्षर॒न्वृष्ण॑ सु॒तस्यौज॑सा।दे॒वाँ अनु॑ प्र॒भूष॑तः॥ ९.०२९.०१
सप्तिं॑ मृजन्ति वे॒धसो॑ गृ॒णन्त॑ का॒रवो॑ गि॒रा।ज्योति॑र्जज्ञा॒नमु॒क्थ्य॑म्॥ ९.०२९.०२
सु॒षहा॑ सोम॒ तानि॑ ते पुना॒नाय॑ प्रभूवसो।वर्धा॑ समु॒द्रमु॒क्थ्य॑म्॥ ९.०२९.०३
विश्वा॒ वसू॑नि सं॒जय॒न्पव॑स्व सोम॒ धार॑या।इ॒नु द्वेषां॑सि स॒ध्र्य॑क्॥ ९.०२९.०४
रक्षा॒ सु नो॒ अर॑रुषः स्व॒नात्स॑मस्य॒ कस्य॑ चित्।नि॒दो यत्र॑ मुमु॒च्महे॑॥ ९.०२९.०५
एन्दो॒ पार्थि॑वं र॒यिं दि॒व्यं प॑वस्व॒ धार॑या।द्यु॒मन्तं॒ शुष्म॒मा भ॑र॥ ९.०२९.०६