ए॒ष क॒विर॒भिष्टु॑तः प॒वित्रे॒ अधि॑ तोशते।पु॒ना॒नो घ्नन्नप॒ स्रिध॑॥ ९.०२७.०१

ए॒ष इन्द्रा॑य वा॒यवे॑ स्व॒र्जित्परि॑ षिच्यते।प॒वित्रे॑ दक्ष॒साध॑नः॥ ९.०२७.०२

ए॒ष नृभि॒र्वि नी॑यते दि॒वो मू॒र्धा वृषा॑ सु॒तः।सोमो॒ वने॑षु विश्व॒वित्॥ ९.०२७.०३

ए॒ष ग॒व्युर॑चिक्रद॒त्पव॑मानो हिरण्य॒युः।इन्दु॑ सत्रा॒जिदस्तृ॑तः॥ ९.०२७.०४

ए॒ष सूर्ये॑ण हासते॒ पव॑मानो॒ अधि॒ द्यवि॑।प॒वित्रे॑ मत्स॒रो मद॑॥ ९.०२७.०५

ए॒ष शु॒ष्म्य॑सिष्यदद॒न्तरि॑क्षे॒ वृषा॒ हरि॑।पु॒ना॒न इन्दु॒रिन्द्र॒मा॥ ९.०२७.०६