तम॑मृक्षन्त वा॒जिन॑मु॒पस्थे॒ अदि॑ते॒रधि॑।विप्रा॑सो॒ अण्व्या॑ धि॒या॥ ९.०२६.०१
तं गावो॑ अ॒भ्य॑नूषत स॒हस्र॑धार॒मक्षि॑तम्।इन्दुं॑ ध॒र्तार॒मा दि॒वः॥ ९.०२६.०२
तं वे॒धां मे॒धया॑ह्य॒न्पव॑मान॒मधि॒ द्यवि॑।ध॒र्ण॒सिं भूरि॑धायसम्॥ ९.०२६.०३
तम॑ह्यन्भु॒रिजो॑र्धि॒या सं॒वसा॑नं वि॒वस्व॑तः।पतिं॑ वा॒चो अदा॑भ्यम्॥ ९.०२६.०४ विवस्वतः- परिचरतः पात्रे हृदये वा। संवसानम्- संवसन्तम्। वाचः पतिम्- मन्त्रपालकम्। अदाभ्यम्- अहिंसितम्। तम्- अमुं रसम्। भुरिजोः- बाह्वोः। धिया- चित्तधारणया। अह्यन्- प्रहिण्वन्ति॥४। तं साना॒वधि॑ जा॒मयो॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः।ह॒र्य॒तं भूरि॑चक्षसम्॥ ९.०२६.०५
तं त्वा॑ हिन्वन्ति वे॒धस॒ पव॑मान गिरा॒वृध॑म्।इन्द॒विन्द्रा॑य मत्स॒रम्॥ ९.०२६.०६