ए॒ते सोमा॑स आ॒शवो॒ रथा॑ इव॒ प्र वा॒जिन॑।सर्गा॑ सृ॒ष्टा अ॑हेषत॥ ९.०२२.०१
ए॒ते वाता॑ इवो॒रव॑ प॒र्जन्य॑स्येव वृ॒ष्टय॑।अ॒ग्नेरि॑व भ्र॒मा वृथा॑॥ ९.०२२.०२
ए॒ते पू॒ता वि॑प॒श्चित॒ सोमा॑सो॒ दध्या॑शिरः। वि॒पा व्या॑नशु॒र्धिय॑॥ ९.०२२.०३
ए॒ते मृ॒ष्टा अम॑र्त्याः ससृ॒वांसो॒ न श॑श्रमुः।इय॑क्षन्तः प॒थो रज॑॥ ९.०२२.०४
ए॒ते पृ॒ष्ठानि॒ रोद॑सोर्विप्र॒यन्तो॒ व्या॑नशुः।उ॒तेदमु॑त्त॒मं रज॑॥ ९.०२२.०५
२
तन्तुं॑ तन्वा॒नमु॑त्त॒ममनु॑ प्र॒वत॑ आशत।उ॒तेदमु॑त्त॒माय्य॑म्॥ ९.०२२.०६
त्वं सो॑म प॒णिभ्य॒ आ वसु॒ गव्या॑नि धारयः।त॒तं तन्तु॑मचिक्रदः॥ ९.०२२.०७