ए॒ते धा॑व॒न्तीन्द॑व॒ सोमा॒ इन्द्रा॑य॒ घृष्व॑यः।म॒त्स॒रास॑ स्व॒र्विद॑॥ ९.०२१.०१
प्र॒वृ॒ण्वन्तो॑ अभि॒युज॒ सुष्व॑ये वरिवो॒विद॑।स्व॒यं स्तो॒त्रे व॑य॒स्कृत॑॥ ९.०२१.०२
वृथा॒ क्रीळ॑न्त॒ इन्द॑वः स॒धस्थ॑म॒भ्येक॒मित्।सिन्धो॑रू॒र्मा व्य॑क्षरन्॥ ९.०२१.०३
ए॒ते विश्वा॑नि॒ वार्या॒ पव॑मानास आशत।हि॒ता न सप्त॑यो॒ रथे॑॥ ९.०२१.०४
आस्मि॑न्पि॒शङ्ग॑मिन्दवो॒ दधा॑ता वे॒नमा॒दिशे॑।यो अ॒स्मभ्य॒मरा॑वा॥ ९.०२१.०५
ऋ॒भुर्न रथ्यं॒ नवं॒ दधा॑ता॒ केत॑मा॒दिशे॑।शु॒क्राः प॑वध्व॒मर्ण॑सा॥ ९.०२१.०६
ए॒त उ॒ त्ये अ॑वीवश॒न्काष्ठां॑ वा॒जिनो॑ अक्रत।स॒तः प्रासा॑विषुर्म॒तिम्॥ ९.०२१.०७