यत्सो॑म चि॒त्रमु॒क्थ्यं॑ दि॒व्यं पार्थि॑वं॒ वसु॑।तन्न॑ पुना॒न आ भ॑र॥ ९.०१९.०१
यु॒वं हि स्थः स्व॑र्पती॒ इन्द्र॑श्च सोम॒ गोप॑ती।ई॒शा॒ना पि॑प्यतं॒ धिय॑॥ ९.०१९.०२
वृषा॑ पुना॒न आ॒युषु॑ स्त॒नय॒न्नधि॑ ब॒र्हिषि॑।हरि॒ सन्योनि॒मास॑दत्॥ ९.०१९.०३
अवा॑वशन्त धी॒तयो॑ वृष॒भस्याधि॒ रेत॑सि।सू॒नोर्व॒त्सस्य॑ मा॒तर॑॥ ९.०१९.०४
कु॒विद्वृ॑ष॒ण्यन्ती॑भ्यः पुना॒नो गर्भ॑मा॒दध॑त्।याः शु॒क्रं दु॑ह॒ते पय॑॥ ९.०१९.०५
उप॑ शिक्षापत॒स्थुषो॑ भि॒यस॒मा धे॑हि॒ शत्रु॑षु।पव॑मान वि॒दा र॒यिम्॥ ९.०१९.०६
नि शत्रो॑ सोम॒ वृष्ण्यं॒ नि शुष्मं॒ नि वय॑स्तिर।दू॒रे वा॑ स॒तो अन्ति॑ वा॥ ९.०१९.०७