प्र नि॒म्नेने॑व॒ सिन्ध॑वो॒ घ्नन्तो॑ वृ॒त्राणि॒ भूर्ण॑यः।सोमा॑ असृग्रमा॒शव॑॥ ९.०१७.०१
अ॒भि सु॑वा॒नास॒ इन्द॑वो वृ॒ष्टय॑ पृथि॒वीमि॑व।इन्द्रं॒ सोमा॑सो अक्षरन्॥ ९.०१७.०२
अत्यू॑र्मिर्मत्स॒रो मद॒ सोम॑ प॒वित्रे॑ अर्षति।वि॒घ्नन्रक्षां॑सि देव॒युः॥ ९.०१७.०३
आ क॒लशे॑षु धावति प॒वित्रे॒ परि॑ षिच्यते।उ॒क्थैर्य॒ज्ञेषु॑ वर्धते॥ ९.०१७.०४
अति॒ त्री सो॑म रोच॒ना रोह॒न्न भ्रा॑जसे॒ दिव॑म्।इ॒ष्णन्सूर्यं॒ न चो॑दयः॥ ९.०१७.०५
२
अ॒भि विप्रा॑ अनूषत मू॒र्धन्य॒ज्ञस्य॑ का॒रव॑।दधा॑ना॒श्चक्ष॑सि प्रि॒यम्॥ ९.०१७.०६
तमु॑ त्वा वा॒जिनं॒ नरो॑ धी॒भिर्विप्रा॑ अव॒स्यव॑।मृ॒जन्ति॑ दे॒वता॑तये॥ ९.०१७.०७
मधो॒र्धारा॒मनु॑ क्षर ती॒व्रः स॒धस्थ॒मास॑दः।चारु॑रृ॒ताय॑ पी॒तये॑॥ ९.०१७.०८