ए॒ष धि॒या या॒त्यण्व्या॒ शूरो॒ रथे॑भिरा॒शुभि॑।गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम्॥ ९.०१५.०१

ए॒ष पु॒रू धि॑यायते बृह॒ते दे॒वता॑तये।यत्रा॒मृता॑स॒ आस॑ते॥ ९.०१५.०२

ए॒ष हि॒तो वि नी॑यते॒ऽन्तः शु॒भ्राव॑ता प॒था।यदी॑ तु॒ञ्जन्ति॒ भूर्ण॑यः॥ ९.०१५.०३

ए॒ष शृङ्गा॑णि॒ दोधु॑व॒च्छिशी॑ते यू॒थ्यो॒ वृषा॑।नृ॒म्णा दधा॑न॒ ओज॑सा॥ ९.०१५.०४

ए॒ष रु॒क्मिभि॑रीयते वा॒जी शु॒भ्रेभि॑रं॒शुभि॑।पति॒ सिन्धू॑नां॒ भव॑न्॥ ९.०१५.०५

ए॒ष वसू॑नि पिब्द॒ना परु॑षा ययि॒वाँ अति॑।अव॒ शादे॑षु गच्छति॥ ९.०१५.०६

ए॒तं मृ॑जन्ति॒ मर्ज्य॒मुप॒ द्रोणे॑ष्वा॒यव॑।प्र॒च॒क्रा॒णं म॒हीरिष॑॥ ९.०१५.०७

ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जन्ति॑ स॒प्त धी॒तय॑।स्वा॒यु॒धं म॒दिन्त॑मम्॥ ९.०१५.०८