परि॒ प्रासि॑ष्यदत्क॒विः सिन्धो॑रू॒र्मावधि॑ श्रि॒तः।का॒रं बिभ्र॑त्पुरु॒स्पृह॑म्॥ ९.०१४.०१
गि॒रा यदी॒ सब॑न्धव॒ पञ्च॒ व्राता॑ अप॒स्यव॑।प॒रि॒ष्कृ॒ण्वन्ति॑ धर्ण॒सिम्॥ ९.०१४.०२
आद॑स्य शु॒ष्मिणो॒ रसे॒ विश्वे॑ दे॒वा अ॑मत्सत।यदी॒ गोभि॑र्वसा॒यते॑॥ ९.०१४.०३
नि॒रि॒णा॒नो वि धा॑वति॒ जह॒च्छर्या॑णि॒ तान्वा॑।अत्रा॒ सं जि॑घ्नते यु॒जा॥ ९.०१४.०४
न॒प्तीभि॒र्यो वि॒वस्व॑तः शु॒भ्रो न मा॑मृ॒जे युवा॑।गाः कृ॑ण्वा॒नो न नि॒र्णिज॑म्॥ ९.०१४.०५
अति॑ श्रि॒ती ति॑र॒श्चता॑ ग॒व्या जि॑गा॒त्यण्व्या॑।व॒ग्नुमि॑यर्ति॒ यं वि॒दे॥ ९.०१४.०६
अ॒भि क्षिप॒ सम॑ग्मत म॒र्जय॑न्तीरि॒षस्पति॑म्।पृ॒ष्ठा गृ॑भ्णत वा॒जिन॑॥ ९.०१४.०७
परि॑ दि॒व्यानि॒ मर्मृ॑श॒द्विश्वा॑नि सोम॒ पार्थि॑वा।वसू॑नि याह्यस्म॒युः॥ ९.०१४.०८