सोम॑ पुना॒नो अ॑र्षति स॒हस्र॑धारो॒ अत्य॑विः।वा॒योरिन्द्र॑स्य निष्कृ॒तम्॥ ९.०१३.०१
पव॑मानमवस्यवो॒ विप्र॑म॒भि प्र गा॑यत।सु॒ष्वा॒णं दे॒ववी॑तये॥ ९.०१३.०२
पव॑न्ते॒ वाज॑सातये॒ सोमा॑ स॒हस्र॑पाजसः।गृ॒णा॒ना दे॒ववी॑तये॥ ९.०१३.०३
उ॒त नो॒ वाज॑सातये॒ पव॑स्व बृह॒तीरिष॑।द्यु॒मदि॑न्दो सु॒वीर्य॑म्॥ ९.०१३.०४
ते न॑ सह॒स्रिणं॑ र॒यिं पव॑न्ता॒मा सु॒वीर्य॑म्।सु॒वा॒ना दे॒वास॒ इन्द॑वः॥ ९.०१३.०५
अत्या॑ हिया॒ना न हे॒तृभि॒रसृ॑ग्रं॒ वाज॑सातये।वि वार॒मव्य॑मा॒शव॑॥ ९.०१३.०६
वा॒श्रा अ॑र्ष॒न्तीन्द॑वो॒ऽभि व॒त्सं न धे॒नव॑।द॒ध॒न्वि॒रे गभ॑स्त्योः॥ ९.०१३.०७
जुष्ट॒ इन्द्रा॑य मत्स॒रः पव॑मान॒ कनि॑क्रदत्।विश्वा॒ अप॒ द्विषो॑ जहि॥ ९.०१३.०८
अ॒प॒घ्नन्तो॒ अरा॑व्ण॒ पव॑मानाः स्व॒र्दृश॑।योना॑वृ॒तस्य॑ सीदत॥ ९.०१३.०९