पर्यू॒ षु प्र ध॑न्व॒ वाज॑सातये॒ परि॑ वृ॒त्राणि॑ स॒क्षणि॑।द्वि॒षस्त॒रध्या॑ ऋण॒या न॑ ईयसे॥ ९.११०.०१
अनु॒ हि त्वा॑ सु॒तं सो॑म॒ मदा॑मसि म॒हे स॑मर्य॒राज्ये॑।वाजाँ॑ अ॒भि प॑वमान॒ प्र गा॑हसे॥ ९.११०.०२
अजी॑जनो॒ हि प॑वमान॒ सूर्यं॑ वि॒धारे॒ शक्म॑ना॒ पय॑।गोजी॑रया॒ रंह॑माण॒ पुरं॑ध्या॥ ९.११०.०३
अजी॑जनो अमृत॒ मर्त्ये॒ष्वाँ ऋ॒तस्य॒ धर्म॑न्न॒मृत॑स्य॒ चारु॑णः।सदा॑सरो॒ वाज॒मच्छा॒ सनि॑ष्यदत्॥ ९.११०.०४
अ॒भ्य॑भि॒ हि श्रव॑सा त॒तर्दि॒थोत्सं॒ न कं चि॑ज्जन॒पान॒मक्षि॑तम्।शर्या॑भि॒र्न भर॑माणो॒ गभ॑स्त्योः॥ ९.११०.०५
आदीं॒ के चि॒त्पश्य॑मानास॒ आप्यं॑ वसु॒रुचो॑ दि॒व्या अ॒भ्य॑नूषत।वारं॒ न दे॒वः स॑वि॒ता व्यू॑र्णुते॥ ९.११०.०६
त्वे सो॑म प्रथ॒मा वृ॒क्तब॑र्हिषो म॒हे वाजा॑य॒ श्रव॑से॒ धियं॑ दधुः।स त्वं नो॑ वीर वी॒र्या॑य चोदय॥ ९.११०.०७
दि॒वः पी॒यूषं॑ पू॒र्व्यं यदु॒क्थ्यं॑ म॒हो गा॒हाद्दि॒व आ निर॑धुक्षत।इन्द्र॑म॒भि जाय॑मानं॒ सम॑स्वरन्॥ ९.११०.०८
अध॒ यदि॒मे प॑वमान॒ रोद॑सी इ॒मा च॒ विश्वा॒ भुव॑ना॒भि म॒ज्मना॑।यू॒थे न नि॒ष्ठा वृ॑ष॒भो वि ति॑ष्ठसे॥ ९.११०.०९
सोम॑ पुना॒नो अ॒व्यये॒ वारे॒ शिशु॒र्न क्रीळ॒न्पव॑मानो अक्षाः।स॒हस्र॑धारः श॒तवा॑ज॒ इन्दु॑॥ ९.११०.१०
ए॒ष पु॑ना॒नो मधु॑माँ ऋ॒तावेन्द्रा॒येन्दु॑ पवते स्वा॒दुरू॒र्मिः।वा॒ज॒सनि॑र्वरिवो॒विद्व॑यो॒धाः॥ ९.११०.११
स प॑वस्व॒ सह॑मानः पृत॒न्यून्सेध॒न्रक्षां॒स्यप॑ दु॒र्गहा॑णि।स्वा॒यु॒धः सा॑स॒ह्वान्सो॑म॒ शत्रू॑न्॥ ९.११०.१२