इन्द्र॒मच्छ॑ सु॒ता इ॒मे वृष॑णं यन्तु॒ हर॑यः।श्रु॒ष्टी जा॒तास॒ इन्द॑वः स्व॒र्विद॑॥ ९.१०६.०१

अ॒यं भरा॑य सान॒सिरिन्द्रा॑य पवते सु॒तः।सोमो॒ जैत्र॑स्य चेतति॒ यथा॑ वि॒दे॥ ९.१०६.०२

अ॒स्येदिन्द्रो॒ मदे॒ष्वा ग्रा॒भं गृ॑भ्णीत सान॒सिम्।वज्रं॑ च॒ वृष॑णं भर॒त्सम॑प्सु॒जित्॥ ९.१०६.०३

प्र ध॑न्वा सोम॒ जागृ॑वि॒रिन्द्रा॑येन्दो॒ परि॑ स्रव।द्यु॒मन्तं॒ शुष्म॒मा भ॑रा स्व॒र्विद॑म्॥ ९.१०६.०४

इन्द्रा॑य॒ वृष॑णं॒ मदं॒ पव॑स्व वि॒श्वद॑र्शतः।स॒हस्र॑यामा पथि॒कृद्वि॑चक्ष॒णः॥ ९.१०६.०५

अ॒स्मभ्यं॑ गातु॒वित्त॑मो दे॒वेभ्यो॒ मधु॑मत्तमः।स॒हस्रं॑ याहि प॒थिभि॒ कनि॑क्रदत्॥ ९.१०६.०६

पव॑स्व दे॒ववी॑तय॒ इन्दो॒ धारा॑भि॒रोज॑सा।आ क॒लशं॒ मधु॑मान्सोम नः सदः॥ ९.१०६.०७

तव॑ द्र॒प्सा उ॑द॒प्रुत॒ इन्द्रं॒ मदा॑य वावृधुः।त्वां दे॒वासो॑ अ॒मृता॑य॒ कं प॑पुः॥ ९.१०६.०८

आ न॑ सुतास इन्दवः पुना॒ना धा॑वता र॒यिम्।वृ॒ष्टिद्या॑वो रीत्यापः स्व॒र्विद॑॥ ९.१०६.०९

सोम॑ पुना॒न ऊ॒र्मिणाव्यो॒ वारं॒ वि धा॑वति।अग्रे॑ वा॒चः पव॑मान॒ कनि॑क्रदत्॥ ९.१०६.१०

धी॒भिर्हि॑न्वन्ति वा॒जिनं॒ वने॒ क्रीळ॑न्त॒मत्य॑विम्।अ॒भि त्रि॑पृ॒ष्ठं म॒तय॒ सम॑स्वरन्॥ ९.१०६.११

अस॑र्जि क॒लशाँ॑ अ॒भि मी॒ळ्हे सप्ति॒र्न वा॑ज॒युः।पु॒ना॒नो वाचं॑ ज॒नय॑न्नसिष्यदत्॥ ९.१०६.१२

पव॑ते हर्य॒तो हरि॒रति॒ ह्वरां॑सि॒ रंह्या॑।अ॒भ्यर्ष॑न्स्तो॒तृभ्यो॑ वी॒रव॒द्यश॑॥ ९.१०६.१३

अ॒या प॑वस्व देव॒युर्मधो॒र्धारा॑ असृक्षत।रेभ॑न्प॒वित्रं॒ पर्ये॑षि वि॒श्वत॑॥ ९.१०६.१४