तं व॑ सखायो॒ मदा॑य पुना॒नम॒भि गा॑यत।शिशुं॒ न य॒ज्ञैः स्व॑दयन्त गू॒र्तिभि॑॥ ९.१०५.०१
सं व॒त्स इ॑व मा॒तृभि॒रिन्दु॑र्हिन्वा॒नो अ॑ज्यते।दे॒वा॒वीर्मदो॑ म॒तिभि॒ परि॑ष्कृतः॥ ९.१०५.०२
अ॒यं दक्षा॑य॒ साध॑नो॒ऽयं शर्धा॑य वी॒तये॑।अ॒यं दे॒वेभ्यो॒ मधु॑मत्तमः सु॒तः॥ ९.१०५.०३
गोम॑न्न इन्दो॒ अश्व॑वत्सु॒तः सु॑दक्ष धन्व।शुचिं॑ ते॒ वर्ण॒मधि॒ गोषु॑ दीधरम्॥ ९.१०५.०४
स नो॑ हरीणां पत॒ इन्दो॑ दे॒वप्स॑रस्तमः।सखे॑व॒ सख्ये॒ नर्यो॑ रु॒चे भ॑व॥ ९.१०५.०५
सने॑मि॒ त्वम॒स्मदाँ अदे॑वं॒ कं चि॑द॒त्रिण॑म्।सा॒ह्वाँ इ॑न्दो॒ परि॒ बाधो॒ अप॑ द्व॒युम्॥ ९.१०५.०६