सखा॑य॒ आ नि षी॑दत पुना॒नाय॒ प्र गा॑यत।शिशुं॒ न य॒ज्ञैः परि॑ भूषत श्रि॒ये॥ ९.१०४.०१
समी॑ व॒त्सं न मा॒तृभि॑ सृ॒जता॑ गय॒साध॑नम्।दे॒वा॒व्यं मद॑म॒भि द्विश॑वसम्॥ ९.१०४.०२
पु॒नाता॑ दक्ष॒साध॑नं॒ यथा॒ शर्धा॑य वी॒तये॑।यथा॑ मि॒त्राय॒ वरु॑णाय॒ शंत॑मः॥ ९.१०४.०३
अ॒स्मभ्यं॑ त्वा वसु॒विद॑म॒भि वाणी॑रनूषत।गोभि॑ष्टे॒ वर्ण॑म॒भि वा॑सयामसि॥ ९.१०४.०४
२
स नो॑ मदानां पत॒ इन्दो॑ दे॒वप्स॑रा असि।सखे॑व॒ सख्ये॑ गातु॒वित्त॑मो भव॥ ९.१०४.०५
सने॑मि कृ॒ध्यस्मदा र॒क्षसं॒ कं चि॑द॒त्रिण॑म्।अपादे॑वं द्व॒युमंहो॑ युयोधि नः॥ ९.१०४.०६