क्रा॒णा शिशु॑र्म॒हीनां॑ हि॒न्वन्नृ॒तस्य॒ दीधि॑तिम्।विश्वा॒ परि॑ प्रि॒या भु॑व॒दध॑ द्वि॒ता॥ ९.१०२.०१

उप॑ त्रि॒तस्य॑ पा॒ष्यो॒रभ॑क्त॒ यद्गुहा॑ प॒दम्।य॒ज्ञस्य॑ स॒प्त धाम॑भि॒रध॑ प्रि॒यम्॥ ९.१०२.०२

त्रीणि॑ त्रि॒तस्य॒ धार॑या पृ॒ष्ठेष्वेर॑या र॒यिम्।मिमी॑ते अस्य॒ योज॑ना॒ वि सु॒क्रतु॑॥ ९.१०२.०३

ज॒ज्ञा॒नं स॒प्त मा॒तरो॑ वे॒धाम॑शासत श्रि॒ये।अ॒यं ध्रु॒वो र॑यी॒णां चिके॑त॒ यत्॥ ९.१०२.०४

अ॒स्य व्र॒ते स॒जोष॑सो॒ विश्वे॑ दे॒वासो॑ अ॒द्रुह॑।स्पा॒र्हा भ॑वन्ति॒ रन्त॑यो जु॒षन्त॒ यत्॥ ९.१०२.०५

यमी॒ गर्भ॑मृता॒वृधो॑ दृ॒शे चारु॒मजी॑जनन्।क॒विं मंहि॑ष्ठमध्व॒रे पु॑रु॒स्पृह॑म्॥ ९.१०२.०६

स॒मी॒ची॒ने अ॒भि त्मना॑ य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑।त॒न्वा॒ना य॒ज्ञमा॑नु॒षग्यद॑ञ्ज॒ते॥ ९.१०२.०७

क्रत्वा॑ शु॒क्रेभि॑र॒क्षभि॑रृ॒णोरप॑ व्र॒जं दि॒वः।हि॒न्वन्नृ॒तस्य॒ दीधि॑तिं॒ प्राध्व॒रे॥ ९.१०२.०८