पु॒रोजि॑ती वो॒ अन्ध॑सः सु॒ताय॑ मादयि॒त्नवे॑।अप॒ श्वानं॑ श्नथिष्टन॒ सखा॑यो दीर्घजि॒ह्व्य॑म्॥ ९.१०१.०१
यो धार॑या पाव॒कया॑ परिप्र॒स्यन्द॑ते सु॒तः।इन्दु॒रश्वो॒ न कृत्व्य॑॥ ९.१०१.०२
तं दु॒रोष॑म॒भी नर॒ सोमं॑ वि॒श्वाच्या॑ धि॒या।य॒ज्ञं हि॑न्व॒न्त्यद्रि॑भिः॥ ९.१०१.०३
सु॒तासो॒ मधु॑मत्तमा॒ सोमा॒ इन्द्रा॑य म॒न्दिन॑।प॒वित्र॑वन्तो अक्षरन्दे॒वान्ग॑च्छन्तु वो॒ मदा॑॥ ९.१०१.०४
इन्दु॒रिन्द्रा॑य पवत॒ इति॑ दे॒वासो॑ अब्रुवन्।वा॒चस्पति॑र्मखस्यते॒ विश्व॒स्येशा॑न॒ ओज॑सा॥ ९.१०१.०५
स॒हस्र॑धारः पवते समु॒द्रो वा॑चमीङ्ख॒यः।सोम॒ पती॑ रयी॒णां सखेन्द्र॑स्य दि॒वेदि॑वे॥ ९.१०१.०६
अ॒यं पू॒षा र॒यिर्भग॒ सोम॑ पुना॒नो अ॑र्षति।पति॒र्विश्व॑स्य॒ भूम॑नो॒ व्य॑ख्य॒द्रोद॑सी उ॒भे॥ ९.१०१.०७
समु॑ प्रि॒या अ॑नूषत॒ गावो॒ मदा॑य॒ घृष्व॑यः।सोमा॑सः कृण्वते प॒थः पव॑मानास॒ इन्द॑वः॥ ९.१०१.०८
३
य ओजि॑ष्ठ॒स्तमा भ॑र॒ पव॑मान श्र॒वाय्य॑म्।यः पञ्च॑ चर्ष॒णीर॒भि र॒यिं येन॒ वना॑महै॥ ९.१०१.०९
सोमा॑ पवन्त॒ इन्द॑वो॒ऽस्मभ्यं॑ गातु॒वित्त॑माः।मि॒त्राः सु॑वा॒ना अ॑रे॒पस॑ स्वा॒ध्य॑ स्व॒र्विद॑॥ ९.१०१.१०
सु॒ष्वा॒णासो॒ व्यद्रि॑भि॒श्चिता॑ना॒ गोरधि॑ त्व॒चि।इष॑म॒स्मभ्य॑म॒भित॒ सम॑स्वरन्वसु॒विद॑॥ ९.१०१.११
ए॒ते पू॒ता वि॑प॒श्चित॒ सोमा॑सो॒ दध्या॑शिरः।सूर्या॑सो॒ न द॑र्श॒तासो॑ जिग॒त्नवो॑ ध्रु॒वा घृ॒ते॥ ९.१०१.१२
प्र सु॑न्वा॒नस्यान्ध॑सो॒ मर्तो॒ न वृ॑त॒ तद्वच॑।अप॒ श्वान॑मरा॒धसं॑ ह॒ता म॒खं न भृग॑वः॥ ९.१०१.१३
आ जा॒मिरत्के॑ अव्यत भु॒जे न पु॒त्र ओ॒ण्यो॑।सर॑ज्जा॒रो न योष॑णां व॒रो न योनि॑मा॒सद॑म्॥ ९.१०१.१४
स वी॒रो द॑क्ष॒साध॑नो॒ वि यस्त॒स्तम्भ॒ रोद॑सी।हरि॑ प॒वित्रे॑ अव्यत वे॒धा न योनि॑मा॒सद॑म्॥ ९.१०१.१५
अव्यो॒ वारे॑भिः पवते॒ सोमो॒ गव्ये॒ अधि॑ त्व॒चि।कनि॑क्रद॒द्वृषा॒ हरि॒रिन्द्र॑स्या॒भ्ये॑ति निष्कृ॒तम्॥ ९.१०१.१६