अ॒भी न॑वन्ते अ॒द्रुह॑ प्रि॒यमिन्द्र॑स्य॒ काम्य॑म्।व॒त्सं न पूर्व॒ आयु॑नि जा॒तं रि॑हन्ति मा॒तर॑॥ ९.१००.०१
पु॒ना॒न इ॑न्द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम्।त्वं वसू॑नि पुष्यसि॒ विश्वा॑नि दा॒शुषो॑ गृ॒हे॥ ९.१००.०२
त्वं धियं॑ मनो॒युजं॑ सृ॒जा वृ॒ष्टिं न त॑न्य॒तुः।त्वं वसू॑नि॒ पार्थि॑वा दि॒व्या च॑ सोम पुष्यसि॥ ९.१००.०३
परि॑ ते जि॒ग्युषो॑ यथा॒ धारा॑ सु॒तस्य॑ धावति।रंह॑माणा॒ व्यव्ययं॒ वारं॑ वा॒जीव॑ सान॒सिः॥ ९.१००.०४
क्रत्वे॒ दक्षा॑य नः कवे॒ पव॑स्व सोम॒ धार॑या।इन्द्रा॑य॒ पात॑वे सु॒तो मि॒त्राय॒ वरु॑णाय च॥ ९.१००.०५
पव॑स्व वाज॒सात॑मः प॒वित्रे॒ धार॑या सु॒तः।इन्द्रा॑य सोम॒ विष्ण॑वे दे॒वेभ्यो॒ मधु॑मत्तमः॥ ९.१००.०६
त्वां रि॑हन्ति मा॒तरो॒ हरिं॑ प॒वित्रे॑ अ॒द्रुह॑।व॒त्सं जा॒तं न धे॒नव॒ पव॑मान॒ विध॑र्मणि॥ ९.१००.०७
पव॑मान॒ महि॒ श्रव॑श्चि॒त्रेभि॑र्यासि र॒श्मिभि॑।शर्ध॒न्तमां॑सि जिघ्नसे॒ विश्वा॑नि दा॒शुषो॑ गृ॒हे॥ ९.१००.०८
३
त्वं द्यां च॑ महिव्रत पृथि॒वीं चाति॑ जभ्रिषे।प्रति॑ द्रा॒पिम॑मुञ्चथा॒ पव॑मान महित्व॒ना॥ ९.१००.०९