प्र स्वा॒नासो॒ रथा॑ इ॒वार्व॑न्तो॒ न श्र॑व॒स्यव॑।सोमा॑सो रा॒ये अ॑क्रमुः॥ ९.०१०.०१

हि॒न्वा॒नासो॒ रथा॑ इव दधन्वि॒रे गभ॑स्त्योः।भरा॑सः का॒रिणा॑मिव॥ ९.०१०.०२

राजा॑नो॒ न प्रश॑स्तिभि॒ सोमा॑सो॒ गोभि॑रञ्जते।य॒ज्ञो न स॒प्त धा॒तृभि॑॥ ९.०१०.०३

परि॑ सुवा॒नास॒ इन्द॑वो॒ मदा॑य ब॒र्हणा॑ गि॒रा।सु॒ता अ॑र्षन्ति॒ धार॑या॥ ९.०१०.०४

आ॒पा॒नासो॑ वि॒वस्व॑तो॒ जन॑न्त उ॒षसो॒ भग॑म्।सूरा॒ अण्वं॒ वि त॑न्वते॥ ९.०१०.०५

अप॒ द्वारा॑ मती॒नां प्र॒त्ना ऋ॑ण्वन्ति का॒रव॑।वृष्णो॒ हर॑स आ॒यव॑॥ ९.०१०.०६

स॒मी॒ची॒नास॑ आसते॒ होता॑रः स॒प्तजा॑मयः।प॒दमेक॑स्य॒ पिप्र॑तः॥ ९.०१०.०७

नाभा॒ नाभिं॑ न॒ आ द॑दे॒ चक्षु॑श्चि॒त्सूर्ये॒ सचा॑।क॒वेरप॑त्य॒मा दु॑हे॥ ९.०१०.०८

अ॒भि प्रि॒या दि॒वस्प॒दम॑ध्व॒र्युभि॒र्गुहा॑ हि॒तम्।सूर॑ पश्यति॒ चक्ष॑सा॥ ९.०१०.०९