स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या।इन्द्रा॑य॒ पात॑वे सु॒तः॥ ९.००१.०१
र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो॑हतम्।द्रुणा॑ स॒धस्थ॒मास॑दत्॥ ९.००१.०२
व॒रि॒वो॒धात॑मो भव॒ मंहि॑ष्ठो वृत्र॒हन्त॑मः।पर्षि॒ राधो॑ म॒घोना॑म्॥ ९.००१.०३
अ॒भ्य॑र्ष म॒हानां॑ दे॒वानां॑ वी॒तिमन्ध॑सा।अ॒भि वाज॑मु॒त श्रव॑॥ ९.००१.०४
त्वामच्छा॑ चरामसि॒ तदिदर्थं॑ दि॒वेदि॑वे।इन्दो॒ त्वे न॑ आ॒शस॑॥ ९.००१.०५
पु॒नाति॑ ते परि॒स्रुतं॒ सोमं॒ सूर्य॑स्य दुहि॒ता।वारे॑ण॒ शश्व॑ता॒ तना॑॥ ९.००१.०६
तमी॒मण्वी॑ सम॒र्य आ गृ॒भ्णन्ति॒ योष॑णो॒ दश॑।स्वसा॑र॒ पार्ये॑ दि॒वि॥ ९.००१.०७
तमीं॑ हिन्वन्त्य॒ग्रुवो॒ धम॑न्ति बाकु॒रं दृति॑म्।त्रि॒धातु॑ वार॒णं मधु॑॥ ९.००१.०८
अ॒भी॒ममघ्न्या॑ उ॒त श्री॒णन्ति॑ धे॒नव॒ शिशु॑म्।सोम॒मिन्द्रा॑य॒ पात॑वे॥ ९.००१.०९
अ॒स्येदिन्द्रो॒ मदे॒ष्वा विश्वा॑ वृ॒त्राणि॑ जिघ्नते।शूरो॑ म॒घा च॑ मंहते॥ ९.००१.१०