उद्घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या॑पसम्।अस्ता॑रमेषि सूर्य॥ ८.०९३.०१
नव॒ यो न॑व॒तिं पुरो॑ बि॒भेद॑ बा॒ह्वो॑जसा।अहिं॑ च वृत्र॒हाव॑धीत्॥ ८.०९३.०२
स न॒ इन्द्र॑ शि॒वः सखाश्वा॑व॒द्गोम॒द्यव॑मत्।उ॒रुधा॑रेव दोहते॥ ८.०९३.०३
यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य।सर्वं॒ तदि॑न्द्र ते॒ वशे॑॥ ८.०९३.०४
यद्वा॑ प्रवृद्ध सत्पते॒ न म॑रा॒ इति॒ मन्य॑से।उ॒तो तत्स॒त्यमित्तव॑॥ ८.०९३.०५
ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे।सर्वाँ॒स्ताँ इ॑न्द्र गच्छसि॥ ८.०९३.०६
तमिन्द्रं॑ वाजयामसि म॒हे वृ॒त्राय॒ हन्त॑वे।स वृषा॑ वृष॒भो भु॑वत्॥ ८.०९३.०७
इन्द्र॒ स दाम॑ने कृ॒त ओजि॑ष्ठ॒ स मदे॑ हि॒तः।द्यु॒म्नी श्लो॒की स सो॒म्यः॥ ८.०९३.०८
गि॒रा वज्रो॒ न सम्भृ॑त॒ सब॑लो॒ अन॑पच्युतः।व॒व॒क्ष ऋ॒ष्वो अस्तृ॑तः॥ ८.०९३.०९
दु॒र्गे चि॑न्नः सु॒गं कृ॑धि गृणा॒न इ॑न्द्र गिर्वणः।त्वं च॑ मघव॒न्वश॑॥ ८.०९३.१०
यस्य॑ ते॒ नू चि॑दा॒दिशं॒ न मि॒नन्ति॑ स्व॒राज्य॑म्।न दे॒वो नाध्रि॑गु॒र्जन॑॥ ८.०९३.११
अधा॑ ते॒ अप्र॑तिष्कुतं दे॒वी शुष्मं॑ सपर्यतः।उ॒भे सु॑शिप्र॒ रोद॑सी॥ ८.०९३.१२
३
त्वमे॒तद॑धारयः कृ॒ष्णासु॒ रोहि॑णीषु च।परु॑ष्णीषु॒ रुश॒त्पय॑॥ ८.०९३.१३
वि यदहे॒रध॑ त्वि॒षो विश्वे॑ दे॒वासो॒ अक्र॑मुः।वि॒दन्मृ॒गस्य॒ ताँ अम॑॥ ८.०९३.१४
आदु॑ मे निव॒रो भु॑वद्वृत्र॒हादि॑ष्ट॒ पौंस्य॑म्।अजा॑तशत्रु॒रस्तृ॑तः॥ ८.०९३.१५
श्रु॒तं वो॑ वृत्र॒हन्त॑मं॒ प्र शर्धं॑ चर्षणी॒नाम्।आ शु॑षे॒ राध॑से म॒हे॥ ८.०९३.१६
अ॒या धि॒या च॑ गव्य॒या पुरु॑णाम॒न्पुरु॑ष्टुत।यत्सोमे॑सोम॒ आभ॑वः॥ ८.०९३.१७
बो॒धिन्म॑ना॒ इद॑स्तु नो वृत्र॒हा भूर्या॑सुतिः।शृ॒णोतु॑ श॒क्र आ॒शिष॑म्॥ ८.०९३.१८
४
कया॒ त्वं न॑ ऊ॒त्याभि प्र म॑न्दसे वृषन्।कया॑ स्तो॒तृभ्य॒ आ भ॑र॥ ८.०९३.१९
कस्य॒ वृषा॑ सु॒ते सचा॑ नि॒युत्वा॑न्वृष॒भो र॑णत्।वृ॒त्र॒हा सोम॑पीतये॥ ८.०९३.२०
अ॒भी षु ण॒स्त्वं र॒यिं म॑न्दसा॒नः स॑ह॒स्रिण॑म्।प्र॒य॒न्ता बो॑धि दा॒शुषे॑॥ ८.०९३.२१
पत्नी॑वन्तः सु॒ता इ॒म उ॒शन्तो॑ यन्ति वी॒तये॑।अ॒पां जग्मि॑र्निचुम्पु॒णः॥ ८.०९३.२२
इ॒ष्टा होत्रा॑ असृक्ष॒तेन्द्रं॑ वृ॒धासो॑ अध्व॒रे।अच्छा॑वभृ॒थमोज॑सा॥ ८.०९३.२३
इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर॑ण्यकेश्या।वो॒ळ्हाम॒भि प्रयो॑ हि॒तम्॥ ८.०९३.२४
५
तुभ्यं॒ सोमा॑ सु॒ता इ॒मे स्ती॒र्णं ब॒र्हिर्वि॑भावसो।स्तो॒तृभ्य॒ इन्द्र॒मा व॑ह॥ ८.०९३.२५
आ ते॒ दक्षं॒ वि रो॑च॒ना दध॒द्रत्ना॒ वि दा॒शुषे॑।स्तो॒तृभ्य॒ इन्द्र॑मर्चत॥ ८.०९३.२६
आ ते॑ दधामीन्द्रि॒यमु॒क्था विश्वा॑ शतक्रतो।स्तो॒तृभ्य॑ इन्द्र मृळय॥ ८.०९३.२७
भ॒द्रम्भ॑द्रं न॒ आ भ॒रेष॒मूर्जं॑ शतक्रतो।यदि॑न्द्र मृ॒ळया॑सि नः॥ ८.०९३.२८
स नो॒ विश्वा॒न्या भ॑र सुवि॒तानि॑ शतक्रतो।यदि॑न्द्र मृ॒ळया॑सि नः॥ ८.०९३.२९
त्वामिद्वृ॑त्रहन्तम सु॒ताव॑न्तो हवामहे।यदि॑न्द्र मृ॒ळया॑सि नः॥ ८.०९३.३०
उप॑ नो॒ हरि॑भिः सु॒तं या॒हि म॑दानां पते।उप॑ नो॒ हरि॑भिः सु॒तम्॥ ८.०९३.३१
द्वि॒ता यो वृ॑त्र॒हन्त॑मो वि॒द इन्द्र॑ श॒तक्र॑तुः।उप॑ नो॒ हरि॑भिः सु॒तम्॥ ८.०९३.३२
त्वं हि वृ॑त्रहन्नेषां पा॒ता सोमा॑ना॒मसि॑।उप॑ नो॒ हरि॑भिः सु॒तम्॥ ८.०९३.३३
इन्द्र॑ इ॒षे द॑दातु न ऋभु॒क्षण॑मृ॒भुं र॒यिम्।वा॒जी द॑दातु वा॒जिन॑म्॥ ८.०९३.३४