पान्त॒मा वो॒ अन्ध॑स॒ इन्द्र॑म॒भि प्र गा॑यत।वि॒श्वा॒साहं॑ श॒तक्र॑तुं॒ मंहि॑ष्ठं चर्षणी॒नाम्॥ ८.०९२.०१

पु॒रु॒हू॒तं पु॑रुष्टु॒तं गा॑था॒न्यं सन॑श्रुतम्।इन्द्र॒ इति॑ ब्रवीतन॥ ८.०९२.०२

इन्द्र॒ इन्नो॑ म॒हानां॑ दा॒ता वाजा॑नां नृ॒तुः।म॒हाँ अ॑भि॒ज्ञ्वा य॑मत्॥ ८.०९२.०३

अपा॑दु शि॒प्र्यन्ध॑सः सु॒दक्ष॑स्य प्रहो॒षिण॑।इन्दो॒रिन्द्रो॒ यवा॑शिरः॥ ८.०९२.०४

तम्व॒भि प्रार्च॒तेन्द्रं॒ सोम॑स्य पी॒तये॑।तदिद्ध्य॑स्य॒ वर्ध॑नम्॥ ८.०९२.०५

अ॒स्य पी॒त्वा मदा॑नां दे॒वो दे॒वस्यौज॑सा।विश्वा॒भि भुव॑ना भुवत्॥ ८.०९२.०६

त्यमु॑ वः सत्रा॒साहं॒ विश्वा॑सु गी॒र्ष्वाय॑तम्।आ च्या॑वयस्यू॒तये॑॥ ८.०९२.०७

यु॒ध्मं सन्त॑मन॒र्वाणं॑ सोम॒पामन॑पच्युतम्।नर॑मवा॒र्यक्र॑तुम्॥ ८.०९२.०८

शिक्षा॑ ण इन्द्र रा॒य आ पु॒रु वि॒द्वाँ ऋ॑चीषम।अवा॑ न॒ पार्ये॒ धने॑॥ ८.०९२.०९

अत॑श्चिदिन्द्र ण॒ उपा या॑हि श॒तवा॑जया।इ॒षा स॒हस्र॑वाजया॥ ८.०९२.१०

अया॑म॒ धीव॑तो॒ धियोऽर्व॑द्भिः शक्र गोदरे।जये॑म पृ॒त्सु व॑ज्रिवः॥ ८.०९२.११

व॒यमु॑ त्वा शतक्रतो॒ गावो॒ न यव॑से॒ष्वा।उ॒क्थेषु॑ रणयामसि॥ ८.०९२.१२

विश्वा॒ हि म॑र्त्यत्व॒नानु॑का॒मा श॑तक्रतो।अग॑न्म वज्रिन्ना॒शस॑॥ ८.०९२.१३

त्वे सु पु॑त्र शव॒सोऽवृ॑त्र॒न्काम॑कातयः।न त्वामि॒न्द्राति॑ रिच्यते॥ ८.०९२.१४

स नो॑ वृष॒न्सनि॑ष्ठया॒ सं घो॒रया॑ द्रवि॒त्न्वा।धि॒यावि॑ड्ढि॒ पुरं॑ध्या॥ ८.०९२.१५

यस्ते॑ नू॒नं श॑तक्रत॒विन्द्र॑ द्यु॒म्नित॑मो॒ मद॑।तेन॑ नू॒नं मदे॑ मदेः॥ ८.०९२.१६

यस्ते॑ चि॒त्रश्र॑वस्तमो॒ य इ॑न्द्र वृत्र॒हन्त॑मः।य ओ॑जो॒दात॑मो॒ मद॑॥ ८.०९२.१७

वि॒द्मा हि यस्ते॑ अद्रिव॒स्त्वाद॑त्तः सत्य सोमपाः।विश्वा॑सु दस्म कृ॒ष्टिषु॑॥ ८.०९२.१८

इन्द्रा॑य॒ मद्व॑ने सु॒तं परि॑ ष्टोभन्तु नो॒ गिर॑।अ॒र्कम॑र्चन्तु का॒रव॑॥ ८.०९२.१९

यस्मि॒न्विश्वा॒ अधि॒ श्रियो॒ रण॑न्ति स॒प्त सं॒सद॑।इन्द्रं॑ सु॒ते ह॑वामहे॥ ८.०९२.२०

त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत।तमिद्व॑र्धन्तु नो॒ गिर॑॥ ८.०९२.२१

आ त्वा॑ विश॒न्त्विन्द॑वः समु॒द्रमि॑व॒ सिन्ध॑वः।न त्वामि॒न्द्राति॑ रिच्यते॥ ८.०९२.२२

वि॒व्यक्थ॑ महि॒ना वृ॑षन्भ॒क्षं सोम॑स्य जागृवे।य इ॑न्द्र ज॒ठरे॑षु ते॥ ८.०९२.२३

अरं॑ त इन्द्र कु॒क्षये॒ सोमो॑ भवतु वृत्रहन्।अरं॒ धाम॑भ्य॒ इन्द॑वः॥ ८.०९२.२४

अर॒मश्वा॑य गायति श्रु॒तक॑क्षो॒ अरं॒ गवे॑।अर॒मिन्द्र॑स्य॒ धाम्ने॑॥ ८.०९२.२५

अरं॒ हि ष्म॑ सु॒तेषु॑ ण॒ सोमे॑ष्विन्द्र॒ भूष॑सि।अरं॑ ते शक्र दा॒वने॑॥ ८.०९२.२६

प॒रा॒कात्ता॑च्चिदद्रिव॒स्त्वां न॑क्षन्त नो॒ गिर॑।अरं॑ गमाम ते व॒यम्॥ ८.०९२.२७

ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः।ए॒वा ते॒ राध्यं॒ मन॑॥ ८.०९२.२८

ए॒वा रा॒तिस्तु॑वीमघ॒ विश्वे॑भिर्धायि धा॒तृभि॑।अधा॑ चिदिन्द्र मे॒ सचा॑॥ ८.०९२.२९

मो षु ब्र॒ह्मेव॑ तन्द्र॒युर्भुवो॑ वाजानां पते।मत्स्वा॑ सु॒तस्य॒ गोम॑तः॥ ८.०९२.३०

मा न॑ इन्द्रा॒भ्या॒३दिश॒ सूरो॑ अ॒क्तुष्वा य॑मन्।त्वा यु॒जा व॑नेम॒ तत्॥ ८.०९२.३१

त्वयेदि॑न्द्र यु॒जा व॒यं प्रति॑ ब्रुवीमहि॒ स्पृध॑।त्वम॒स्माकं॒ तव॑ स्मसि॥ ८.०९२.३२

त्वामिद्धि त्वा॒यवो॑ऽनु॒नोनु॑वत॒श्चरा॑न्।सखा॑य इन्द्र का॒रव॑॥ ८.०९२.३३