क॒न्या॒ वार॑वाय॒ती सोम॒मपि॑ स्रु॒तावि॑दत्। अस्तं॒ भर॑न्त्यब्रवी॒दिन्द्रा॑य सुनवै त्वा श॒क्राय॑ सुनवै त्वा॥ ८.०९१.०१
अ॒सौ य एषि॑ वीर॒को गृ॒हंगृ॑हं वि॒चाक॑शद्। इ॒मं जम्भ॑सुतं पिब धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म्॥ ८.०९१.०२
आ च॒न त्वा॑ चिकित्सा॒मोऽधि॑ च॒न त्वा॒ नेम॑सि। शनै॑रिव शन॒कैरि॒वेन्द्रा॑येन्दो॒ परि॑ स्रव॥ ८.०९१.०३
कु॒विच्छक॑त्कु॒वित्कर॑त्कु॒विन्नो॒ वस्य॑स॒स्कर॑त्।कु॒वित्प॑ति॒द्विषो॑ य॒तीरिन्द्रे॑ण सं॒गमा॑महै॥ ८.०९१.०४
इ॒मानि॒ त्रीणि॑ वि॒ष्टपा॒ तानी॑न्द्र॒ वि रो॑हय।शिर॑स्त॒तस्यो॒र्वरा॒मादि॒दं म॒ उपो॒दरे॑॥ ८.०९१.०५
अ॒सौ च॒ या न॑ उ॒र्वरादि॒मां त॒न्वं मम॑।अथो॑ त॒तस्य॒ यच्छिर॒ सर्वा॒ ता रो॑म॒शा कृ॑धि॥ ८.०९१.०६
खे रथ॑स्य॒ खेऽन॑स॒ खे यु॒गस्य॑ शतक्रतो।अ॒पा॒लामि॑न्द्र॒ त्रिष्पू॒त्व्यकृ॑णो॒ सूर्य॑त्वचम्॥ ८.०९१.०७