आ नू॒नम॑श्विना यु॒वं व॒त्सस्य॑ गन्त॒मव॑से।प्रास्मै॑ यच्छतमवृ॒कं पृ॒थु च्छ॒र्दिर्यु॑यु॒तं या अरा॑तयः॥ ८.००९.०१
यद॒न्तरि॑क्षे॒ यद्दि॒वि यत्पञ्च॒ मानु॑षाँ॒ अनु॑।नृ॒म्णं तद्ध॑त्तमश्विना॥ ८.००९.०२
ये वां॒ दंसां॑स्यश्विना॒ विप्रा॑सः परिमामृ॒शुः।ए॒वेत्का॒ण्वस्य॑ बोधतम्॥ ८.००९.०३
अ॒यं वां॑ घ॒र्मो अ॑श्विना॒ स्तोमे॑न॒ परि॑ षिच्यते।अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चिके॑तथः॥ ८.००९.०४
यद॒प्सु यद्वन॒स्पतौ॒ यदोष॑धीषु पुरुदंससा कृ॒तम्।तेन॑ माविष्टमश्विना॥ ८.००९.०५
यन्ना॑सत्या भुर॒ण्यथो॒ यद्वा॑ देव भिष॒ज्यथ॑। अ॒यं वां॑ व॒त्सो म॒तिभि॒र्न वि॑न्धते ह॒विष्म॑न्तं॒ हि गच्छ॑थः॥ ८.००९.०६
आ नू॒नम॒श्विनो॒रृषि॒ स्तोमं॑ चिकेत वा॒मया॑।आ सोमं॒ मधु॑मत्तमं घ॒र्मं सि॑ञ्चा॒दथ॑र्वणि॥ ८.००९.०७
आ नू॒नं र॒घुव॑र्तनिं॒ रथं॑ तिष्ठाथो अश्विना।आ वां॒ स्तोमा॑ इ॒मे मम॒ नभो॒ न चु॑च्यवीरत॥ ८.००९.०८
यद॒द्य वां॑ नासत्यो॒क्थैरा॑चुच्युवी॒महि॑।यद्वा॒ वाणी॑भिरश्विने॒वेत्का॒ण्वस्य॑ बोधतम्॥ ८.००९.०९
यद्वां॑ क॒क्षीवाँ॑ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां॑ दी॒र्घत॑मा जु॒हाव॑। पृथी॒ यद्वां॑ वै॒न्यः साद॑नेष्वे॒वेदतो॑ अश्विना चेतयेथाम्॥ ८.००९.१०
या॒तं छ॑र्दि॒ष्पा उ॒त न॑ पर॒स्पा भू॒तं ज॑ग॒त्पा उ॒त न॑स्तनू॒पा। व॒र्तिस्तो॒काय॒ तन॑याय यातम्॥ ८.००९.११
यदिन्द्रे॑ण स॒रथं॑ या॒थो अ॑श्विना॒ यद्वा॑ वा॒युना॒ भव॑थ॒ समो॑कसा। यदा॑दि॒त्येभि॑रृ॒भुभि॑ स॒जोष॑सा॒ यद्वा॒ विष्णो॑र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः॥ ८.००९.१२
यद॒द्याश्विना॑व॒हं हु॒वेय॒ वाज॑सातये।यत्पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रव॑॥ ८.००९.१३
आ नू॒नं या॑तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता। इ॒मे सोमा॑सो॒ अधि॑ तु॒र्वशे॒ यदा॑वि॒मे कण्वे॑षु वा॒मथ॑॥ ८.००९.१४
यन्ना॑सत्या परा॒के अ॑र्वा॒के अस्ति॑ भेष॒जम्। तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ यच्छतम्॥ ८.००९.१५
अभु॑त्स्यु॒ प्र दे॒व्या सा॒कं वा॒चाहम॒श्विनो॑।व्या॑वर्दे॒व्या म॒तिं वि रा॒तिं मर्त्ये॑भ्यः॥ ८.००९.१६
प्र बो॑धयोषो अ॒श्विना॒ प्र दे॑वि सूनृते महि।प्र य॑ज्ञहोतरानु॒षक्प्र मदा॑य॒ श्रवो॑ बृ॒हत्॥ ८.००९.१७
यदु॑षो॒ यासि॑ भा॒नुना॒ सं सूर्ये॑ण रोचसे।आ हा॒यम॒श्विनो॒ रथो॑ व॒र्तिर्या॑ति नृ॒पाय्य॑म्॥ ८.००९.१८
यदापी॑तासो अं॒शवो॒ गावो॒ न दु॒ह्र ऊध॑भिः।यद्वा॒ वाणी॒रनू॑षत॒ प्र दे॑व॒यन्तो॑ अ॒श्विना॑॥ ८.००९.१९
प्र द्यु॒म्नाय॒ प्र शव॑से॒ प्र नृ॒षाह्या॑य॒ शर्म॑णे।प्र दक्षा॑य प्रचेतसा॥ ८.००९.२०
यन्नू॒नं धी॒भिर॑श्विना पि॒तुर्योना॑ नि॒षीद॑थः।यद्वा॑ सु॒म्नेभि॑रुक्थ्या॥ ८.००९.२१