आ मे॒ हवं॑ नास॒त्याश्वि॑ना॒ गच्छ॑तं यु॒वम्।मध्व॒ सोम॑स्य पी॒तये॑॥ ८.०८५.०१

इ॒मं मे॒ स्तोम॑मश्विने॒मं मे॑ शृणुतं॒ हव॑म्।मध्व॒ सोम॑स्य पी॒तये॑॥ ८.०८५.०२

अ॒यं वां॒ कृष्णो॑ अश्विना॒ हव॑ते वाजिनीवसू।मध्व॒ सोम॑स्य पी॒तये॑॥ ८.०८५.०३

शृ॒णु॒तं ज॑रि॒तुर्हवं॒ कृष्ण॑स्य स्तुव॒तो न॑रा।मध्व॒ सोम॑स्य पी॒तये॑॥ ८.०८५.०४

छ॒र्दिर्य॑न्त॒मदा॑भ्यं॒ विप्रा॑य स्तुव॒ते न॑रा।मध्व॒ सोम॑स्य पी॒तये॑॥ ८.०८५.०५

गच्छ॑तं दा॒शुषो॑ गृ॒हमि॒त्था स्तु॑व॒तो अ॑श्विना।मध्व॒ सोम॑स्य पी॒तये॑॥ ८.०८५.०६

यु॒ञ्जाथां॒ रास॑भं॒ रथे॑ वी॒ड्व॑ङ्गे वृषण्वसू।मध्व॒ सोम॑स्य पी॒तये॑॥ ८.०८५.०७

त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॒ रथे॒ना या॑तमश्विना।मध्व॒ सोम॑स्य पी॒तये॑॥ ८.०८५.०८

नू मे॒ गिरो॑ नास॒त्याश्वि॑ना॒ प्राव॑तं यु॒वम्।मध्व॒ सोम॑स्य पी॒तये॑॥ ८.०८५.०९