प्रेष्ठं॑ वो॒ अति॑थिं स्तु॒षे मि॒त्रमि॑व प्रि॒यम्।अ॒ग्निं रथं॒ न वेद्य॑म्॥ ८.०८४.०१
क॒विमि॑व॒ प्रचे॑तसं॒ यं दे॒वासो॒ अध॑ द्वि॒ता।नि मर्त्ये॑ष्वाद॒धुः॥ ८.०८४.०२
त्वं य॑विष्ठ दा॒शुषो॒ नॄँः पा॑हि शृणु॒धी गिर॑।रक्षा॑ तो॒कमु॒त त्मना॑॥ ८.०८४.०३
कया॑ ते अग्ने अङ्गिर॒ ऊर्जो॑ नपा॒दुप॑स्तुतिम्।वरा॑य देव म॒न्यवे॑॥ ८.०८४.०४
दाशे॑म॒ कस्य॒ मन॑सा य॒ज्ञस्य॑ सहसो यहो।कदु॑ वोच इ॒दं नम॑॥ ८.०८४.०५
अधा॒ त्वं हि न॒स्करो॒ विश्वा॑ अ॒स्मभ्यं॑ सुक्षि॒तीः।वाज॑द्रविणसो॒ गिर॑॥ ८.०८४.०६
२
कस्य॑ नू॒नं परी॑णसो॒ धियो॑ जिन्वसि दम्पते।गोषा॑ता॒ यस्य॑ ते॒ गिर॑॥ ८.०८४.०७
तं म॑र्जयन्त सु॒क्रतुं॑ पुरो॒यावा॑नमा॒जिषु॑।स्वेषु॒ क्षये॑षु वा॒जिन॑म्॥ ८.०८४.०८
क्षेति॒ क्षेमे॑भिः सा॒धुभि॒र्नकि॒र्यं घ्नन्ति॒ हन्ति॒ यः।अग्ने॑ सु॒वीर॑ एधते॥ ८.०८४.०९