दे॒वाना॒मिदवो॑ म॒हत्तदा वृ॑णीमहे व॒यम्।वृष्णा॑म॒स्मभ्य॑मू॒तये॑॥ ८.०८३.०१
ते न॑ सन्तु॒ युज॒ सदा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा।वृ॒धास॑श्च॒ प्रचे॑तसः॥ ८.०८३.०२
अति॑ नो विष्पि॒ता पु॒रु नौ॒भिर॒पो न प॑र्षथ।यू॒यमृ॒तस्य॑ रथ्यः॥ ८.०८३.०३
वा॒मं नो॑ अस्त्वर्यमन्वा॒मं व॑रुण॒ शंस्य॑म्।वा॒मं ह्या॑वृणी॒महे॑॥ ८.०८३.०४
वा॒मस्य॒ हि प्र॑चेतस॒ ईशा॑नाशो रिशादसः।नेमा॑दित्या अ॒घस्य॒ यत्॥ ८.०८३.०५
व॒यमिद्व॑ सुदानवः क्षि॒यन्तो॒ यान्तो॒ अध्व॒न्ना।देवा॑ वृ॒धाय॑ हूमहे॥ ८.०८३.०६
अधि॑ न इन्द्रैषां॒ विष्णो॑ सजा॒त्या॑नाम्।इ॒ता मरु॑तो॒ अश्वि॑ना॥ ८.०८३.०७
प्र भ्रा॑तृ॒त्वं सु॑दान॒वोऽध॑ द्वि॒ता स॑मा॒न्या।मा॒तुर्गर्भे॑ भरामहे॥ ८.०८३.०८
यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिद्य॑वः।अधा॑ चिद्व उ॒त ब्रु॑वे॥ ८.०८३.०९