आ प्र द्र॑व परा॒वतो॑ऽर्वा॒वत॑श्च वृत्रहन्।मध्व॒ प्रति॒ प्रभ॑र्मणि॥ ८.०८२.०१
ती॒व्राः सोमा॑स॒ आ ग॑हि सु॒तासो॑ मादयि॒ष्णव॑।पिबा॑ द॒धृग्यथो॑चि॒षे॥ ८.०८२.०२
इ॒षा म॑न्द॒स्वादु॒ तेऽरं॒ वरा॑य म॒न्यवे॑।भुव॑त्त इन्द्र॒ शं हृ॒दे॥ ८.०८२.०३
आ त्व॑शत्र॒वा ग॑हि॒ न्युक्थानि॑ च हूयसे।उ॒प॒मे रो॑च॒ने दि॒वः॥ ८.०८२.०४
तुभ्या॒यमद्रि॑भिः सु॒तो गोभि॑ श्री॒तो मदा॑य॒ कम्।प्र सोम॑ इन्द्र हूयते॥ ८.०८२.०५
इन्द्र॑ श्रु॒धि सु मे॒ हव॑म॒स्मे सु॒तस्य॒ गोम॑तः।वि पी॒तिं तृ॒प्तिम॑श्नुहि॥ ८.०८२.०६
य इ॑न्द्र चम॒सेष्वा सोम॑श्च॒मूषु॑ ते सु॒तः।पिबेद॑स्य॒ त्वमी॑शिषे॥ ८.०८२.०७
यो अ॒प्सु च॒न्द्रमा॑ इव॒ सोम॑श्च॒मूषु॒ ददृ॑शे।पिबेद॑स्य॒ त्वमी॑शिषे॥ ८.०८२.०८
यं ते॑ श्ये॒नः प॒दाभ॑रत्ति॒रो रजां॒स्यस्पृ॑तम्।पिबेद॑स्य॒ त्वमी॑शिषे॥ ८.०८२.०९