अ॒यं कृ॒त्नुरगृ॑भीतो विश्व॒जिदु॒द्भिदित्सोम॑।ऋषि॒र्विप्र॒ काव्ये॑न॥ ८.०७९.०१

अ॒भ्यू॑र्णोति॒ यन्न॒ग्नं भि॒षक्ति॒ विश्वं॒ यत्तु॒रम्।प्रेम॒न्धः ख्य॒न्निः श्रो॒णो भू॑त्॥ ८.०७९.०२

त्वं सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्यः।उ॒रु य॒न्तासि॒ वरू॑थम्॥ ८.०७९.०३

त्वं चि॒त्ती तव॒ दक्षै॑र्दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन्।यावी॑र॒घस्य॑ चि॒द्द्वेष॑॥ ८.०७९.०४

अ॒र्थिनो॒ यन्ति॒ चेदर्थं॒ गच्छा॒निद्द॒दुषो॑ रा॒तिम्।व॒वृ॒ज्युस्तृष्य॑त॒ काम॑म्॥ ८.०७९.०५

वि॒दद्यत्पू॒र्व्यं न॒ष्टमुदी॑मृता॒युमी॑रयत्।प्रेमायु॑स्तारी॒दती॑र्णम्॥ ८.०७९.०६

सु॒शेवो॑ नो मृळ॒याकु॒रदृ॑प्तक्रतुरवा॒तः।भवा॑ नः सोम॒ शं हृ॒दे॥ ८.०७९.०७

मा न॑ सोम॒ सं वी॑विजो॒ मा वि बी॑भिषथा राजन्।मा नो॒ हार्दि॑ त्वि॒षा व॑धीः॥ ८.०७९.०८

अव॒ यत्स्वे स॒धस्थे॑ दे॒वानां॑ दुर्म॒तीरीक्षे॑।राज॒न्नप॒ द्विष॑ सेध॒ मीड्वो॒ अप॒ स्रिध॑ सेध॥ ८.०७९.०९