यो राजा॑ चर्षणी॒नां याता॒ रथे॑भि॒रध्रि॑गुः। विश्वा॑सां तरु॒ता पृत॑नानां॒ ज्येष्ठो॒ यो वृ॑त्र॒हा गृ॒णे॥ ८.०७०.०१

इन्द्रं॒ तं शु॑म्भ पुरुहन्म॒न्नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑। हस्ता॑य॒ वज्र॒प्रति॑ धायि दर्श॒तो म॒हो दि॒वे न सूर्य॑ ८.०७०.०२

नकि॒ष्टं कर्म॑णा नश॒द्यश्च॒कार॑ स॒दावृ॑धम्। इन्द्रं॒ न य॒ज्ञैर्वि॒श्वगू॑र्त॒मृभ्व॑स॒मधृ॑ष्टं धृ॒ष्ण्वो॑जसम्॥ ८.०७०.०३

अषा॑ळ्हमु॒ग्रं पृत॑नासु सास॒हिं यस्मि॑न्म॒हीरु॑रु॒ज्रय॑ सं धे॒नवो॒ जाय॑माने अनोनवु॒र्द्याव॒क्षामो॑ अनोनवुः॥ ८.०७०.०४

यद्द्याव॑ इन्द्र ते श॒तं श॒तं भूमी॑रु॒त स्युः। न त्वा॑ वज्रिन्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी॥ ८.०७०.०५

आ प॑प्राथ महि॒ना वृष्ण्या॑ वृष॒न्विश्वा॑ शविष्ठ॒ शव॑सा। अ॒स्माँ अ॑व मघव॒न्गोम॑ति व्र॒जे वज्रि॑ञ्चि॒त्राभि॑रू॒तिभि॑ ८.०७०.०६

न सी॒मदे॑व आप॒दिषं॑ दीर्घायो॒ मर्त्य॑ एत॑ग्वा चि॒द्य एत॑शा यु॒योज॑ते॒ हरी॒ इन्द्रो॑ यु॒योज॑ते॥ ८.०७०.०७

तं वो॑ म॒हो म॒हाय्य॒मिन्द्रं॑ दा॒नाय॑ स॒क्षणि॑म्। यो गा॒धेषु॒ य आर॑णेषु॒ हव्यो॒ वाजे॒ष्वस्ति॒ हव्य॑.०७०.०८

तम्। वः- यूयम्। महः- महान्तः। महाय्यम्- महान्तम्। इन्द्रम्। सक्षणिम्- सहनशीलम्। दानाय पूजयत। यः। गाधेषु- उदकेषु। आरणेषु- निम्नेषु। हव्यः- आह्वातव्यः। वाजेषु- युद्धेषु सद्गतिषु वा। हव्यः। अस्ति- भवति॥८॥ उदू॒ षु णो॑ वसो म॒हे मृ॒शस्व॑ शूर॒ राध॑से। उदू॒ षु म॒ह्यै म॑घवन्म॒घत्त॑य॒ उदि॑न्द्र॒ श्रव॑से म॒हे॥ ८.०७०.०९

त्वं न॑ इन्द्र ऋत॒युस्त्वा॒निदो॒ नि तृ॑म्पसि। मध्ये॑ वसिष्व तुविनृम्णो॒र्वोर्नि दा॒सं शि॑श्नथो॒ हथै॑ ८.०७०.१०

अ॒न्यव्र॑त॒ममा॑नुष॒मय॑ज्वान॒मदे॑वयुम्। अव॒ स्वः सखा॑ दुधुवीत॒ पर्व॑तः सु॒घ्नाय॒ दस्युं॒ पर्व॑तः॥ ८.०७०.११

त्वं न॑ इन्द्रासां॒ हस्ते॑ शविष्ठ दा॒वने॑। धा॒नानां॒ न सं गृ॑भायास्म॒युर्द्विः सं गृ॑भायास्म॒युः॥ ८.०७०.१२

सखा॑य॒क्रतु॑मिच्छत क॒था रा॑धाम श॒रस्य॑।उप॑स्तुतिं भो॒जः सू॒रिर्यो अह्र॑यः॥ ८.०७०.१३

भूरि॑भिः समह॒ ऋषि॑भिर्ब॒र्हिष्म॑द्भिः स्तविष्यसे।यदि॒त्थमेक॑मेक॒मिच्छर॑ व॒त्सान्प॑रा॒दद॑ ८.०७०.१४

क॒र्ण॒गृह्या॑ म॒घवा॑ शौरदे॒व्यो व॒त्सं न॑स्त्रि॒भ्य आन॑यत्।अ॒जां सू॒रिर्न धात॑वे॥ ८.०७०.१५