आ त्वा॒ रथं॒ यथो॒तये॑ सु॒म्नाय॑ वर्तयामसि।तु॒वि॒कू॒र्मिमृ॑ती॒षह॒मिन्द्र॒ शवि॑ष्ठ॒ सत्प॑ते॥ ८.०६८.०१

तुवि॑शुष्म॒ तुवि॑क्रतो॒ शची॑वो॒ विश्व॑या मते।आ प॑प्राथ महित्व॒ना॥ ८.०६८.०२

यस्य॑ ते महि॒ना म॒हः परि॑ ज्मा॒यन्त॑मी॒यतु॑।हस्ता॒ वज्रं॑ हिर॒ण्यय॑म्॥ ८.०६८.०३

वि॒श्वान॑रस्य व॒स्पति॒मना॑नतस्य॒ शव॑सः।एवै॑श्च चर्षणी॒नामू॒ती हु॑वे॒ रथा॑नाम्॥ ८.०६८.०४

अ॒भिष्ट॑ये स॒दावृ॑धं॒ स्व॑र्मीळ्हेषु॒ यं नर॑।नाना॒ हव॑न्त ऊ॒तये॑॥ ८.०६८.०५

प॒रोमा॑त्र॒मृची॑षम॒मिन्द्र॑मु॒ग्रं सु॒राध॑सम्।ईशा॑नं चि॒द्वसू॑नाम्॥ ८.०६८.०६

तंत॒मिद्राध॑से म॒ह इन्द्रं॑ चोदामि पी॒तये॑।यः पू॒र्व्यामनु॑ष्टुति॒मीशे॑ कृष्टी॒नां नृ॒तुः॥ ८.०६८.०७

न यस्य॑ ते शवसान स॒ख्यमा॒नंश॒ मर्त्य॑।नकि॒ शवां॑सि ते नशत्॥ ८.०६८.०८

त्वोता॑स॒स्त्वा यु॒जाप्सु सूर्ये॑ म॒हद्धन॑म्।जये॑म पृ॒त्सु व॑ज्रिवः॥ ८.०६८.०९

तं त्वा॑ य॒ज्ञेभि॑रीमहे॒ तं गी॒र्भिर्गि॑र्वणस्तम।इन्द्र॒ यथा॑ चि॒दावि॑थ॒ वाजे॑षु पुरु॒माय्य॑म्॥ ८.०६८.१०

यस्य॑ ते स्वा॒दु स॒ख्यं स्वा॒द्वी प्रणी॑तिरद्रिवः।य॒ज्ञो वि॑तन्त॒साय्य॑॥ ८.०६८.११

उ॒रु ण॑स्त॒न्वे॒ तन॑ उ॒रु क्षया॑य नस्कृधि।उ॒रु णो॑ यन्धि जी॒वसे॑॥ ८.०६८.१२

उ॒रुं नृभ्य॑ उ॒रुं गव॑ उ॒रुं रथा॑य॒ पन्था॑म्।दे॒ववी॑तिं मनामहे॥ ८.०६८.१३

उप॑ मा॒ षड्द्वाद्वा॒ नर॒ सोम॑स्य॒ हर्ष्या॑।तिष्ठ॑न्ति स्वादुरा॒तय॑॥ ८.०६८.१४

ऋ॒ज्रावि॑न्द्रो॒त आ द॑दे॒ हरी॒ ऋक्ष॑स्य सू॒नवि॑।आ॒श्व॒मे॒धस्य॒ रोहि॑ता॥ ८.०६८.१५

सु॒रथाँ॑ आतिथि॒ग्वे स्व॑भी॒शूँरा॒र्क्षे।आ॒श्व॒मे॒धे सु॒पेश॑सः॥ ८.०६८.१६

षळश्वाँ॑ आतिथि॒ग्व इ॑न्द्रो॒ते व॒धूम॑तः।सचा॑ पू॒तक्र॑तौ सनम्॥ ८.०६८.१७

ऐषु॑ चेत॒द्वृष॑ण्वत्य॒न्तरृ॒ज्रेष्वरु॑षी।स्व॒भी॒शुः कशा॑वती॥ ८.०६८.१८

न यु॒ष्मे वा॑जबन्धवो निनि॒त्सुश्च॒न मर्त्य॑।अ॒व॒द्यमधि॑ दीधरत्॥ ८.०६८.१९