उत्त्वा॑ मन्दन्तु॒ स्तोमा॑ कृणु॒ष्व राधो॑ अद्रिवः।अव॑ ब्रह्म॒द्विषो॑ जहि॥ ८.०६४.०१
प॒दा प॒णीँर॑रा॒धसो॒ नि बा॑धस्व म॒हाँ अ॑सि।न॒हि त्वा॒ कश्च॒न प्रति॑॥ ८.०६४.०२
त्वमी॑शिषे सु॒ताना॒मिन्द्र॒ त्वमसु॑तानाम्।त्वं राजा॒ जना॑नाम्॥ ८.०६४.०३
एहि॒ प्रेहि॒ क्षयो॑ दि॒व्या॒घोष॑ञ्चर्षणी॒नाम्।ओभे पृ॑णासि॒ रोद॑सी॥ ८.०६४.०४
त्यं चि॒त्पर्व॑तं गि॒रिं श॒तव॑न्तं सह॒स्रिण॑म्।वि स्तो॒तृभ्यो॑ रुरोजिथ॥ ८.०६४.०५
व॒यमु॑ त्वा॒ दिवा॑ सु॒ते व॒यं नक्तं॑ हवामहे।अ॒स्माकं॒ काम॒मा पृ॑ण॥ ८.०६४.०६
क्व१ स्य वृ॑ष॒भो युवा॑ तुवि॒ग्रीवो॒ अना॑नतः।ब्र॒ह्मा कस्तं स॑पर्यति॥ ८.०६४.०७
कस्य॑ स्वि॒त्सव॑नं॒ वृषा॑ जुजु॒ष्वाँ अव॑ गच्छति।इन्द्रं॒ क उ॑ स्वि॒दा च॑के॥ ८.०६४.०८
कं ते॑ दा॒ना अ॑सक्षत॒ वृत्र॑ह॒न्कं सु॒वीर्या॑।उ॒क्थे क उ॑ स्वि॒दन्त॑मः॥ ८.०६४.०९
अ॒यं ते॒ मानु॑षे॒ जने॒ सोम॑ पू॒रुषु॑ सूयते।तस्येहि॒ प्र द्र॑वा॒ पिब॑॥ ८.०६४.१०
अ॒यं ते॑ शर्य॒णाव॑ति सु॒षोमा॑या॒मधि॑ प्रि॒यः।आ॒र्जी॒कीये॑ म॒दिन्त॑मः॥ ८.०६४.११
तम॒द्य राध॑से म॒हे चारुं॒ मदा॑य॒ घृष्व॑ये।एही॑मिन्द्र॒ द्रवा॒ पिब॑॥ ८.०६४.१२