यमृ॒त्विजो॑ बहु॒धा क॒ल्पय॑न्त॒ सचे॑तसो य॒ज्ञमि॒मं वह॑न्ति। यो अ॑नूचा॒नो ब्रा॑ह्म॒णो यु॒क्त आ॑सी॒त्का स्वि॒त्तत्र॒ यज॑मानस्य सं॒वित्॥ ८.०५८.०१

एक॑ ए॒वाग्निर्ब॑हु॒धा समि॑द्ध॒ एक॒ सूर्यो॒ विश्व॒मनु॒ प्रभू॑तः। एकै॒वोषाः सर्व॑मि॒दं वि भा॒त्येकं॒ वा इ॒दं वि ब॑भूव॒ सर्व॑म्॥ ८.०५८.०२

ज्योति॑ष्मन्तं केतु॒मन्तं॑ त्रिच॒क्रं सु॒खं रथं॑ सु॒षदं॒ भूरि॑वारम्। चि॒त्राम॑घा॒ यस्य॒ योगे॑ऽधिजज्ञे॒ तं वां॑ हु॒वे अति॑ रिक्तं॒ पिब॑ध्यै॥ ८.०५८.०३