भूरीदिन्द्र॑स्य वी॒र्यं व्यख्य॑म॒भ्याय॑ति।राध॑स्ते दस्यवे वृक॥ ८.०५५.०१

श॒तं श्वे॒तास॑ उ॒क्षणो॑ दि॒वि तारो॒ न रो॑चन्ते।म॒ह्ना दिवं॒ न त॑स्तभुः॥ ८.०५५.०२

श॒तं वे॒णूञ्छ॒तं शुन॑ श॒तं चर्मा॑णि म्ला॒तानि॑। श॒तं मे॑ बल्बजस्तु॒का अरु॑षीणां॒ चतु॑शतम्॥ ८.०५५.०३

सु॒दे॒वाः स्थ॑ काण्वायना॒ वयो॑वयो विच॒रन्त॑।अश्वा॑सो॒ न च॑ङ्क्रमत॥ ८.०५५.०४

आदित्सा॒प्तस्य॑ चर्किर॒न्नानू॑नस्य॒ महि॒ श्रव॑। श्यावी॑रतिध्व॒सन्प॒थश्चक्षु॑षा च॒न सं॒नशे॑॥ ८.०५५.०५