उ॒प॒मं त्वा॑ म॒घोनां॒ ज्येष्ठं॑ च वृष॒भाणा॑म्। पू॒र्भित्त॑मं मघवन्निन्द्र गो॒विद॒मीशा॑नं रा॒य ई॑महे॥ ८.०५३.०१

य आ॒युं कुत्स॑मतिथि॒ग्वमर्द॑यो वावृधा॒नो दि॒वेदि॑वे। तं त्वा॑ व॒यं हर्य॑श्वं श॒तक्र॑तुं वाज॒यन्तो॑ हवामहे॥ ८.०५३.०२

आ नो॒ विश्वे॑षां॒ रसं॒ मध्व॑ सिञ्च॒न्त्वद्र॑यः। ये प॑रा॒वति॑ सुन्वि॒रे जने॒ष्वा ये अ॑र्वा॒वतीन्द॑वः॥ ८.०५३.०३

विश्वा॒ द्वेषां॑सि ज॒हि चाव॒ चा कृ॑धि॒ विश्वे॑ सन्व॒न्त्वा वसु॑। शीष्टे॑षु चित्ते मदि॒रासो॑ अं॒शवो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑॥ ८.०५३.०४

इन्द्र॒ नेदी॑य॒ एदि॑हि मि॒तमे॑धाभिरू॒तिभि॑। आ शं॑तम॒ शंत॑माभिर॒भिष्टि॑भि॒रा स्वा॑पे स्वा॒पिभि॑॥ ८.०५३.०५

आ॒जि॒तुरं॒ सत्प॑तिं वि॒श्वच॑र्षणिं कृ॒धि प्र॒जास्वाभ॑गम्। प्र सू ति॑रा॒ शची॑भि॒र्ये त॑ उ॒क्थिन॒ क्रतुं॑ पुन॒त आ॑नु॒षक्॥ ८.०५३.०६

यस्ते॒ साधि॒ष्ठोऽव॑से॒ ते स्या॑म॒ भरे॑षु ते। व॒यं होत्रा॑भिरु॒त दे॒वहू॑तिभिः सस॒वांसो॑ मनामहे॥ ८.०५३.०७

अ॒हं हि ते॑ हरिवो॒ ब्रह्म॑ वाज॒युरा॒जिं यामि॒ सदो॒तिभि॑। त्वामिदे॒व तममे॒ सम॑श्व॒युर्ग॒व्युरग्रे॑ मथी॒नाम्॥ ८.०५३.०८