इ॒मे विप्र॑स्य वे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः।गिर॒ स्तोमा॑स ईरते॥ ८.०४३.०१

अस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे।अग्ने॒ जना॑मि सुष्टु॒तिम्॥ ८.०४३.०२

आ॒रो॒का इ॑व॒ घेदह॑ ति॒ग्मा अ॑ग्ने॒ तव॒ त्विष॑।द॒द्भिर्वना॑नि बप्सति॥ ८.०४३.०३

हर॑यो धू॒मके॑तवो॒ वात॑जूता॒ उप॒ द्यवि॑।यत॑न्ते॒ वृथ॑ग॒ग्नय॑॥ ८.०४३.०४

ए॒ते त्ये वृथ॑ग॒ग्नय॑ इ॒द्धास॒ सम॑दृक्षत।उ॒षसा॑मिव के॒तव॑॥ ८.०४३.०५

कृ॒ष्णा रजां॑सि पत्सु॒तः प्र॒याणे॑ जा॒तवे॑दसः।अ॒ग्निर्यद्रोध॑ति॒ क्षमि॑॥ ८.०४३.०६

धा॒सिं कृ॑ण्वा॒न ओष॑धी॒र्बप्स॑द॒ग्निर्न वा॑यति।पुन॒र्यन्तरु॑णी॒रपि॑॥ ८.०४३.०७

जि॒ह्वाभि॒रह॒ नन्न॑मद॒र्चिषा॑ जञ्जणा॒भव॑न्।अ॒ग्निर्वने॑षु रोचते॥ ८.०४३.०८

अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे।गर्भे॒ सञ्जा॑यसे॒ पुन॑॥ ८.०४३.०९

उद॑ग्ने॒ तव॒ तद्घृ॒ताद॒र्ची रो॑चत॒ आहु॑तम्।निंसा॑नं जु॒ह्वो॒ मुखे॑॥ ८.०४३.१०

उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑।स्तोमै॑र्विधेमा॒ग्नये॑॥ ८.०४३.११

उ॒त त्वा॒ नम॑सा व॒यं होत॒र्वरे॑ण्यक्रतो।अग्ने॑ स॒मिद्भि॑रीमहे॥ ८.०४३.१२

उ॒त त्वा॑ भृगु॒वच्छु॑चे मनु॒ष्वद॑ग्न आहुत।अ॒ङ्गि॒र॒स्वद्ध॑वामहे॥ ८.०४३.१३

त्वं ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्स॒ता।सखा॒ सख्या॑ समि॒ध्यसे॑॥ ८.०४३.१४

स त्वं विप्रा॑य दा॒शुषे॑ र॒यिं दे॑हि सह॒स्रिण॑म्।अग्ने॑ वी॒रव॑ती॒मिष॑म्॥ ८.०४३.१५

अग्ने॒ भ्रात॒ सह॑स्कृत॒ रोहि॑दश्व॒ शुचि॑व्रत।इ॒मं स्तोमं॑ जुषस्व मे॥ ८.०४३.१६

उ॒त त्वा॑ग्ने॒ मम॒ स्तुतो॑ वा॒श्राय॑ प्रति॒हर्य॑ते।गो॒ष्ठं गाव॑ इवाशत॥ ८.०४३.१७

तुभ्यं॒ ता अ॑ङ्गिरस्तम॒ विश्वा॑ सुक्षि॒तय॒ पृथ॑क्।अग्ने॒ कामा॑य येमिरे॥ ८.०४३.१८

अ॒ग्निं धी॒भिर्म॑नी॒षिणो॒ मेधि॑रासो विप॒श्चित॑।अ॒द्म॒सद्या॑य हिन्विरे॥ ८.०४३.१९

तं त्वामज्मे॑षु वा॒जिनं॑ तन्वा॒ना अ॑ग्ने अध्व॒रम्।वह्निं॒ होता॑रमीळते॥ ८.०४३.२०

पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः।स॒मत्सु॑ त्वा हवामहे॥ ८.०४३.२१

तमी॑ळिष्व॒ य आहु॑तो॒ऽग्निर्वि॒भ्राज॑ते घृ॒तैः।इ॒मं न॑ शृणव॒द्धव॑म्॥ ८.०४३.२२

तं त्वा॑ व॒यं ह॑वामहे शृ॒ण्वन्तं॑ जा॒तवे॑दसम्।अग्ने॒ घ्नन्त॒मप॒ द्विष॑॥ ८.०४३.२३

वि॒शां राजा॑न॒मद्भु॑त॒मध्य॑क्षं॒ धर्म॑णामि॒मम्।अ॒ग्निमी॑ळे॒ स उ॑ श्रवत्॥ ८.०४३.२४

अ॒ग्निं वि॒श्वायु॑वेपसं॒ मर्यं॒ न वा॒जिनं॑ हि॒तम्।सप्तिं॒ न वा॑जयामसि॥ ८.०४३.२५

घ्नन्मृ॒ध्राण्यप॒ द्विषो॒ दह॒न्रक्षां॑सि वि॒श्वहा॑।अग्ने॑ ति॒ग्मेन॑ दीदिहि॥ ८.०४३.२६

यं त्वा॒ जना॑स इन्ध॒ते म॑नु॒ष्वद॑ङ्गिरस्तम।अग्ने॒ स बो॑धि मे॒ वच॑॥ ८.०४३.२७

यद॑ग्ने दिवि॒जा अस्य॑प्सु॒जा वा॑ सहस्कृत।तं त्वा॑ गी॒र्भिर्ह॑वामहे॥ ८.०४३.२८

तुभ्यं॒ घेत्ते जना॑ इ॒मे विश्वा॑ सुक्षि॒तय॒ पृथ॑क्।धा॒सिं हि॑न्व॒न्त्यत्त॑वे॥ ८.०४३.२९

ते घेद॑ग्ने स्वा॒ध्योऽहा॒ विश्वा॑ नृ॒चक्ष॑सः।तर॑न्तः स्याम दु॒र्गहा॑॥ ८.०४३.३०

अ॒ग्निं म॒न्द्रं पु॑रुप्रि॒यं शी॒रं पा॑व॒कशो॑चिषम्।हृ॒द्भिर्म॒न्द्रेभि॑रीमहे॥ ८.०४३.३१

स त्वम॑ग्ने वि॒भाव॑सुः सृ॒जन्सूर्यो॒ न र॒श्मिभि॑।शर्ध॒न्तमां॑सि जिघ्नसे॥ ८.०४३.३२

तत्ते॑ सहस्व ईमहे दा॒त्रं यन्नोप॒दस्य॑ति।त्वद॑ग्ने॒ वार्यं॒ वसु॑॥ ८.०४३.३३