अ॒वि॒तासि॑ सुन्व॒तो वृ॒क्तब॑र्हिष॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो। यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑ सेहा॒नः पृत॑ना उ॒रु ज्रय॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते॥ ८.०३६.०१
प्राव॑ स्तो॒तारं॑ मघव॒न्नव॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो। यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑ सेहा॒नः पृत॑ना उ॒रु ज्रय॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते॥ ८.०३६.०२
ऊ॒र्जा दे॒वाँ अव॒स्योज॑सा॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो। यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑ सेहा॒नः पृत॑ना उ॒रु ज्रय॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते॥ ८.०३६.०३
ज॒नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो। यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑ सेहा॒नः पृत॑ना उ॒रु ज्रय॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते॥ ८.०३६.०४
ज॒नि॒ताश्वा॑नां जनि॒ता गवा॑मसि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो। यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑ सेहा॒नः पृत॑ना उ॒रु ज्रय॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते॥ ८.०३६.०५
अत्री॑णां॒ स्तोम॑मद्रिवो म॒हस्कृ॑धि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो। यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑ सेहा॒नः पृत॑ना उ॒रु ज्रय॒ सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते॥ ८.०३६.०६
श्या॒वाश्व॑स्य सुन्व॒तस्तथा॑ शृणु॒ यथाशृ॑णो॒रत्रे॒ कर्मा॑णि कृण्व॒तः। प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इन्द्र॒ ब्रह्मा॑णि व॒र्धय॑न्॥ ८.०३६.०७