प्र कृ॒तान्यृ॑जी॒षिण॒ कण्वा॒ इन्द्र॑स्य॒ गाथ॑या।मदे॒ सोम॑स्य वोचत॥ ८.०३२.०१

यः सृबि॑न्द॒मन॑र्शनिं॒ पिप्रुं॑ दा॒सम॑ही॒शुव॑म्।वधी॑दु॒ग्रो रि॒णन्न॒पः॥ ८.०३२.०२

न्यर्बु॑दस्य वि॒ष्टपं॑ व॒र्ष्माणं॑ बृह॒तस्ति॑र।कृ॒षे तदि॑न्द्र॒ पौंस्य॑म्॥ ८.०३२.०३

प्रति॑ श्रु॒ताय॑ वो धृ॒षत्तूर्णा॑शं॒ न गि॒रेरधि॑।हु॒वे सु॑शि॒प्रमू॒तये॑॥ ८.०३२.०४

स गोरश्व॑स्य॒ वि व्र॒जं म॑न्दा॒नः सो॒म्येभ्य॑।पुरं॒ न शू॑र दर्षसि॥ ८.०३२.०५

यदि॑ मे रा॒रण॑ सु॒त उ॒क्थे वा॒ दध॑से॒ चन॑।आ॒रादुप॑ स्व॒धा ग॑हि॥ ८.०३२.०६

व॒यं घा॑ ते॒ अपि॑ ष्मसि स्तो॒तार॑ इन्द्र गिर्वणः।त्वं नो॑ जिन्व सोमपाः॥ ८.०३२.०७

उ॒त न॑ पि॒तुमा भ॑र संररा॒णो अवि॑क्षितम्।मघ॑व॒न्भूरि॑ ते॒ वसु॑॥ ८.०३२.०८

उ॒त नो॒ गोम॑तस्कृधि॒ हिर॑ण्यवतो अ॒श्विन॑।इळा॑भि॒ सं र॑भेमहि॥ ८.०३२.०९

बृ॒बदु॑क्थं हवामहे सृ॒प्रक॑रस्नमू॒तये॑।साधु॑ कृ॒ण्वन्त॒मव॑से॥ ८.०३२.१०

यः सं॒स्थे चि॑च्छ॒तक्र॑तु॒रादीं॑ कृ॒णोति॑ वृत्र॒हा।ज॒रि॒तृभ्य॑ पुरू॒वसु॑॥ ८.०३२.११

स न॑ श॒क्रश्चि॒दा श॑क॒द्दान॑वाँ अन्तराभ॒रः।इन्द्रो॒ विश्वा॑भिरू॒तिभि॑॥ ८.०३२.१२

यो रा॒यो॒ऽवनि॑र्म॒हान्सु॑पा॒रः सु॑न्व॒तः सखा॑।तमिन्द्र॑म॒भि गा॑यत॥ ८.०३२.१३

आ॒य॒न्तारं॒ महि॑ स्थि॒रं पृत॑नासु श्रवो॒जित॑म्।भूरे॒रीशा॑न॒मोज॑सा॥ ८.०३२.१४

नकि॑रस्य॒ शची॑नां निय॒न्ता सू॒नृता॑नाम्।नकि॑र्व॒क्ता न दा॒दिति॑॥ ८.०३२.१५

न नू॒नं ब्र॒ह्मणा॑मृ॒णं प्रा॑शू॒नाम॑स्ति सुन्व॒ताम्।न सोमो॑ अप्र॒ता प॑पे॥ ८.०३२.१६

पन्य॒ इदुप॑ गायत॒ पन्य॑ उ॒क्थानि॑ शंसत।ब्रह्मा॑ कृणोत॒ पन्य॒ इत्॥ ८.०३२.१७

पन्य॒ आ द॑र्दिरच्छ॒ता स॒हस्रा॑ वा॒ज्यवृ॑तः।इन्द्रो॒ यो यज्व॑नो वृ॒धः॥ ८.०३२.१८

वि षू च॑र स्व॒धा अनु॑ कृष्टी॒नामन्वा॒हुव॑।इन्द्र॒ पिब॑ सु॒ताना॑म्॥ ८.०३२.१९

पिब॒ स्वधै॑नवानामु॒त यस्तुग्र्ये॒ सचा॑।उ॒तायमि॑न्द्र॒ यस्तव॑॥ ८.०३२.२०

अती॑हि मन्युषा॒विणं॑ सुषु॒वांस॑मु॒पार॑णे।इ॒मं रा॒तं सु॒तं पि॑ब॥ ८.०३२.२१

इ॒हि ति॒स्रः प॑रा॒वत॑ इ॒हि पञ्च॒ जनाँ॒ अति॑।धेना॑ इन्द्राव॒चाक॑शत्॥ ८.०३२.२२

सूर्यो॑ र॒श्मिं यथा॑ सृ॒जा त्वा॑ यच्छन्तु मे॒ गिर॑।नि॒म्नमापो॒ न स॒ध्र्य॑क्॥ ८.०३२.२३

अध्व॑र्य॒वा तु हि षि॒ञ्च सोमं॑ वी॒राय॑ शि॒प्रिणे॑।भरा॑ सु॒तस्य॑ पी॒तये॑॥ ८.०३२.२४

य उ॒द्नः फ॑लि॒गं भि॒नन्न्य१क्सिन्धूँ॑र॒वासृ॑जत्।यो गोषु॑ प॒क्वं धा॒रय॑त्॥ ८.०३२.२५

अह॑न्वृ॒त्रमृची॑षम और्णवा॒भम॑ही॒शुव॑म्।हि॒मेना॑विध्य॒दर्बु॑दम्॥ ८.०३२.२६

प्र व॑ उ॒ग्राय॑ नि॒ष्टुरेऽषा॑ळ्हाय प्रस॒क्षिणे॑।दे॒वत्तं॒ ब्रह्म॑ गायत॥ ८.०३२.२७

यो विश्वा॑न्य॒भि व्र॒ता सोम॑स्य॒ मदे॒ अन्ध॑सः।इन्द्रो॑ दे॒वेषु॒ चेत॑ति॥ ८.०३२.२८

इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर॑ण्यकेश्या।वो॒ळ्हाम॒भि प्रयो॑ हि॒तम्॥ ८.०३२.२९

अ॒र्वाञ्चं॑ त्वा पुरुष्टुत प्रि॒यमे॑धस्तुता॒ हरी॑।सो॒म॒पेया॑य वक्षतः॥ ८.०३२.३०