यु॒वोरु॒ षू रथं॑ हुवे स॒धस्तु॑त्याय सू॒रिषु॑।अतू॑र्तदक्षा वृषणा वृषण्वसू॥ ८.०२६.०१

यु॒वं व॑रो सु॒षाम्णे॑ म॒हे तने॑ नासत्या।अवो॑भिर्याथो वृषणा वृषण्वसू॥ ८.०२६.०२

ता वा॑म॒द्य ह॑वामहे ह॒व्येभि॑र्वाजिनीवसू।पू॒र्वीरि॒ष इ॒षय॑न्ता॒वति॑ क्ष॒पः॥ ८.०२६.०३

आ वां॒ वाहि॑ष्ठो अश्विना॒ रथो॑ यातु श्रु॒तो न॑रा।उप॒ स्तोमा॑न्तु॒रस्य॑ दर्शथः श्रि॒ये॥ ८.०२६.०४

जु॒हु॒रा॒णा चि॑दश्वि॒ना म॑न्येथां वृषण्वसू।यु॒वं हि रु॑द्रा॒ पर्ष॑थो॒ अति॒ द्विष॑॥ ८.०२६.०५

द॒स्रा हि विश्व॑मानु॒षङ्म॒क्षूभि॑ परि॒दीय॑थः।धि॒यं॒जि॒न्वा मधु॑वर्णा शु॒भस्पती॑॥ ८.०२६.०६

उप॑ नो यातमश्विना रा॒या वि॑श्व॒पुषा॑ स॒ह।म॒घवा॑ना सु॒वीरा॒वन॑पच्युता॥ ८.०२६.०७

आ मे॑ अ॒स्य प्र॑ती॒व्यमिन्द्र॑नासत्या गतम्।दे॒वा दे॒वेभि॑र॒द्य स॒चन॑स्तमा॥ ८.०२६.०८

व॒यं हि वां॒ हवा॑मह उक्ष॒ण्यन्तो॑ व्यश्व॒वत्।सु॒म॒तिभि॒रुप॑ विप्रावि॒हा ग॑तम्॥ ८.०२६.०९

अ॒श्विना॒ स्वृ॑षे स्तुहि कु॒वित्ते॒ श्रव॑तो॒ हव॑म्।नेदी॑यसः कूळयातः प॒णीँरु॒त॥ ८.०२६.१०

वै॒य॒श्वस्य॑ श्रुतं नरो॒तो मे॑ अ॒स्य वे॑दथः।स॒जोष॑सा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा॥ ८.०२६.११

यु॒वाद॑त्तस्य धिष्ण्या यु॒वानी॑तस्य सू॒रिभि॑।अह॑रहर्वृषण॒ मह्यं॑ शिक्षतम्॥ ८.०२६.१२

यो वां॑ य॒ज्ञेभि॒रावृ॒तोऽधि॑वस्त्रा व॒धूरि॑व।स॒प॒र्यन्ता॑ शु॒भे च॑क्राते अ॒श्विना॑॥ ८.०२६.१३

यो वा॑मुरु॒व्यच॑स्तमं॒ चिके॑तति नृ॒पाय्य॑म्।व॒र्तिर॑श्विना॒ परि॑ यातमस्म॒यू॥ ८.०२६.१४

अ॒स्मभ्यं॒ सु वृ॑षण्वसू या॒तं व॒र्तिर्नृ॒पाय्य॑म्।वि॒षु॒द्रुहे॑व य॒ज्ञमू॑हथुर्गि॒रा॥ ८.०२६.१५

वाहि॑ष्ठो वां॒ हवा॑नां॒ स्तोमो॑ दू॒तो हु॑वन्नरा।यु॒वाभ्यां॑ भूत्वश्विना॥ ८.०२६.१६

यद॒दो दि॒वो अ॑र्ण॒व इ॒षो वा॒ मद॑थो गृ॒हे।श्रु॒तमिन्मे॑ अमर्त्या॥ ८.०२६.१७

उ॒त स्या श्वे॑त॒याव॑री॒ वाहि॑ष्ठा वां न॒दीना॑म्।सिन्धु॒र्हिर॑ण्यवर्तनिः॥ ८.०२६.१८

स्मदे॒तया॑ सुकी॒र्त्याश्वि॑ना श्वे॒तया॑ धि॒या।वहे॑थे शुभ्रयावाना॥ ८.०२६.१९

यु॒क्ष्वा हि त्वं र॑था॒सहा॑ यु॒वस्व॒ पोष्या॑ वसो।आन्नो॑ वायो॒ मधु॑ पिबा॒स्माकं॒ सव॒ना ग॑हि॥ ८.०२६.२०

तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत।अवां॒स्या वृ॑णीमहे॥ ८.०२६.२१

त्वष्टु॒र्जामा॑तरं व॒यमीशा॑नं रा॒य ई॑महे।सु॒ताव॑न्तो वा॒युं द्यु॒म्ना जना॑सः॥ ८.०२६.२२

वायो॑ या॒हि शि॒वा दि॒वो वह॑स्वा॒ सु स्वश्व्य॑म्।वह॑स्व म॒हः पृ॑थु॒पक्ष॑सा॒ रथे॑॥ ८.०२६.२३

त्वां हि सु॒प्सर॑स्तमं नृ॒षद॑नेषु हू॒महे॑।ग्रावा॑णं॒ नाश्व॑पृष्ठं मं॒हना॑॥ ८.०२६.२४

स त्वं नो॑ देव॒ मन॑सा॒ वायो॑ मन्दा॒नो अ॑ग्रि॒यः।कृ॒धि वाजाँ॑ अ॒पो धिय॑॥ ८.०२६.२५