ईळि॑ष्वा॒ हि प्र॑ती॒व्यं यज॑स्व जा॒तवे॑दसम्।च॒रि॒ष्णुधू॑म॒मगृ॑भीतशोचिषम्॥ ८.०२३.०१

दा॒मानं॑ विश्वचर्षणे॒ऽग्निं वि॑श्वमनो गि॒रा।उ॒त स्तु॑षे॒ विष्प॑र्धसो॒ रथा॑नाम्॥ ८.०२३.०२

येषा॑माबा॒ध ऋ॒ग्मिय॑ इ॒षः पृ॒क्षश्च॑ नि॒ग्रभे॑।उ॒प॒विदा॒ वह्नि॑र्विन्दते॒ वसु॑॥ ८.०२३.०३

उद॑स्य शो॒चिर॑स्थाद्दीदि॒युषो॒ व्यजर॑म्।तपु॑र्जम्भस्य सु॒द्युतो॑ गण॒श्रिय॑॥ ८.०२३.०४

उदु॑ तिष्ठ स्वध्वर॒ स्तवा॑नो दे॒व्या कृ॒पा।अ॒भि॒ख्या भा॒सा बृ॑ह॒ता शु॑शु॒क्वनि॑॥ ८.०२३.०५

अग्ने॑ या॒हि सु॑श॒स्तिभि॑र्ह॒व्या जुह्वा॑न आनु॒षक्।यथा॑ दू॒तो ब॒भूथ॑ हव्य॒वाह॑नः॥ ८.०२३.०६

अ॒ग्निं व॑ पू॒र्व्यं हु॑वे॒ होता॑रं चर्षणी॒नाम्।तम॒या वा॒चा गृ॑णे॒ तमु॑ वः स्तुषे॥ ८.०२३.०७

य॒ज्ञेभि॒रद्भु॑तक्रतुं॒ यं कृ॒पा सू॒दय॑न्त॒ इत्।मि॒त्रं न जने॒ सुधि॑तमृ॒ताव॑नि॥ ८.०२३.०८

ऋ॒तावा॑नमृतायवो य॒ज्ञस्य॒ साध॑नं गि॒रा।उपो॑ एनं जुजुषु॒र्नम॑सस्प॒दे॥ ८.०२३.०९

अच्छा॑ नो॒ अङ्गि॑रस्तमं य॒ज्ञासो॑ यन्तु सं॒यत॑।होता॒ यो अस्ति॑ वि॒क्ष्वा य॒शस्त॑मः॥ ८.०२३.१०

अग्ने॒ तव॒ त्ये अ॑ज॒रेन्धा॑नासो बृ॒हद्भाः।अश्वा॑ इव॒ वृष॑णस्तविषी॒यव॑॥ ८.०२३.११

स त्वं न॑ ऊर्जां पते र॒यिं रा॑स्व सु॒वीर्य॑म्।प्राव॑ नस्तो॒के तन॑ये स॒मत्स्वा॥ ८.०२३.१२

यद्वा उ॑ वि॒श्पति॑ शि॒तः सुप्री॑तो॒ मनु॑षो वि॒शि।विश्वेद॒ग्निः प्रति॒ रक्षां॑सि सेधति॥ ८.०२३.१३

श्रु॒ष्ट्य॑ग्ने॒ नव॑स्य मे॒ स्तोम॑स्य वीर विश्पते।नि मा॒यिन॒स्तपु॑षा र॒क्षसो॑ दह॥ ८.०२३.१४

न तस्य॑ मा॒यया॑ च॒न रि॒पुरी॑शीत॒ मर्त्य॑।यो अ॒ग्नये॑ द॒दाश॑ ह॒व्यदा॑तिभिः॥ ८.०२३.१५

व्य॑श्वस्त्वा वसु॒विद॑मुक्ष॒ण्युर॑प्रीणा॒दृषि॑।म॒हो रा॒ये तमु॑ त्वा॒ समि॑धीमहि॥ ८.०२३.१६

उ॒शना॑ का॒व्यस्त्वा॒ नि होता॑रमसादयत्।आ॒य॒जिं त्वा॒ मन॑वे जा॒तवे॑दसम्॥ ८.०२३.१७

विश्वे॒ हि त्वा॑ स॒जोष॑सो दे॒वासो॑ दू॒तमक्र॑त।श्रु॒ष्टी दे॑व प्रथ॒मो य॒ज्ञियो॑ भुवः॥ ८.०२३.१८

इ॒मं घा॑ वी॒रो अ॒मृतं॑ दू॒तं कृ॑ण्वीत॒ मर्त्य॑।पा॒व॒कं कृ॒ष्णव॑र्तनिं॒ विहा॑यसम्॥ ८.०२३.१९

तं हु॑वेम य॒तस्रु॑चः सु॒भासं॑ शु॒क्रशो॑चिषम्।वि॒शाम॒ग्निम॒जरं॑ प्र॒त्नमीड्य॑म्॥ ८.०२३.२०

यो अ॑स्मै ह॒व्यदा॑तिभि॒राहु॑तिं॒ मर्तोऽवि॑धत्।भूरि॒ पोषं॒ स ध॑त्ते वी॒रव॒द्यश॑॥ ८.०२३.२१

प्र॒थ॒मं जा॒तवे॑दसम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यम्।प्रति॒ स्रुगे॑ति॒ नम॑सा ह॒विष्म॑ती॥ ८.०२३.२२

आभि॑र्विधेमा॒ग्नये॒ ज्येष्ठा॑भिर्व्यश्व॒वत्।मंहि॑ष्ठाभिर्म॒तिभि॑ शु॒क्रशो॑चिषे॥ ८.०२३.२३

नू॒नम॑र्च॒ विहा॑यसे॒ स्तोमे॑भिः स्थूरयूप॒वत्।ऋषे॑ वैयश्व॒ दम्या॑या॒ग्नये॑॥ ८.०२३.२४

अति॑थिं॒ मानु॑षाणां सू॒नुं वन॒स्पती॑नाम्।विप्रा॑ अ॒ग्निमव॑से प्र॒त्नमी॑ळते॥ ८.०२३.२५

म॒हो विश्वाँ॑ अ॒भि ष॒तो॒ऽभि ह॒व्यानि॒ मानु॑षा।अग्ने॒ नि ष॑त्सि॒ नम॒साधि॑ ब॒र्हिषि॑॥ ८.०२३.२६

वंस्वा॑ नो॒ वार्या॑ पु॒रु वंस्व॑ रा॒यः पु॑रु॒स्पृह॑।सु॒वीर्य॑स्य प्र॒जाव॑तो॒ यश॑स्वतः॥ ८.०२३.२७

त्वं व॑रो सु॒षाम्णेऽग्ने॒ जना॑य चोदय।सदा॑ वसो रा॒तिं य॑विष्ठ॒ शश्व॑ते॥ ८.०२३.२८

त्वं हि सु॑प्र॒तूरसि॒ त्वं नो॒ गोम॑ती॒रिष॑।म॒हो रा॒यः सा॒तिम॑ग्ने॒ अपा॑ वृधि॥ ८.०२३.२९

अग्ने॒ त्वं य॒शा अ॒स्या मि॒त्रावरु॑णा वह।ऋ॒तावा॑ना स॒म्राजा॑ पू॒तद॑क्षसा॥ ८.०२३.३०