इ॒दं व॑सो सु॒तमन्ध॒ पिबा॒ सुपू॑र्णमु॒दर॑म्।अना॑भयिन्ररि॒मा ते॑॥ ८.००२.०१
नृभि॑र्धू॒तः सु॒तो अश्नै॒रव्यो॒ वारै॒ परि॑पूतः।अश्वो॒ न नि॒क्तो न॒दीषु॑॥ ८.००२.०२
तं ते॒ यवं॒ यथा॒ गोभि॑ स्वा॒दुम॑कर्म श्री॒णन्त॑।इन्द्र॑ त्वा॒स्मिन्स॑ध॒मादे॑॥ ८.००२.०३
इन्द्र॒ इत्सो॑म॒पा एक॒ इन्द्र॑ सुत॒पा वि॒श्वायु॑।अ॒न्तर्दे॒वान्मर्त्याँ॑श्च॥ ८.००२.०४
न यं शु॒क्रो न दुरा॑शी॒र्न तृ॒प्रा उ॑रु॒व्यच॑सम्।अ॒प॒स्पृ॒ण्व॒ते सु॒हार्द॑म्॥ ८.००२.०५
गोभि॒र्यदी॑म॒न्ये अ॒स्मन्मृ॒गं न व्रा मृ॒गय॑न्ते।अ॒भि॒त्सर॑न्ति धे॒नुभि॑॥ ८.००२.०६
त्रय॒ इन्द्र॑स्य॒ सोमा॑ सु॒तास॑ सन्तु दे॒वस्य॑।स्वे क्षये॑ सुत॒पाव्न॑॥ ८.००२.०७
त्रय॒ कोशा॑सः श्चोतन्ति ति॒स्रश्च॒म्व१◌ः सुपू॑र्णाः।स॒मा॒ने अधि॒ भार्म॑न्॥ ८.००२.०८
शुचि॑रसि पुरुनि॒ष्ठाः क्षी॒रैर्म॑ध्य॒त आशी॑र्तः।द॒ध्ना मन्दि॑ष्ठ॒ शूर॑स्य॥ ८.००२.०९
इ॒मे त॑ इन्द्र॒ सोमा॑स्ती॒व्रा अ॒स्मे सु॒तास॑।शु॒क्रा आ॒शिरं॑ याचन्ते॥ ८.००२.१०
ताँ आ॒शिरं॑ पुरो॒ळाश॒मिन्द्रे॒मं सोमं॑ श्रीणीहि।रे॒वन्तं॒ हि त्वा॑ शृ॒णोमि॑॥ ८.००२.११
हृ॒त्सु पी॒तासो॑ युध्यन्ते दु॒र्मदा॑सो॒ न सुरा॑याम्। ऊध॒र्न न॒ग्ना ज॑रन्ते॥ ८.००२.१२
रे॒वाँ इद्रे॒वत॑ स्तो॒ता स्यात्त्वाव॑तो म॒घोन॑।प्रेदु॑ हरिवः श्रु॒तस्य॑॥ ८.००२.१३
उ॒क्थं च॒न श॒स्यमा॑न॒मगो॑र॒रिरा चि॑केत।न गा॑य॒त्रं गी॒यमा॑नम्॥ ८.००२.१४
मा न॑ इन्द्र पीय॒त्नवे॒ मा शर्ध॑ते॒ परा॑ दाः।शिक्षा॑ शचीव॒ शची॑भिः॥ ८.००२.१५
व॒यमु॑ त्वा त॒दिद॑र्था॒ इन्द्र॑ त्वा॒यन्त॒ सखा॑यः।कण्वा॑ उ॒क्थेभि॑र्जरन्ते॥ ८.००२.१६
न घे॑म॒न्यदा प॑पन॒ वज्रि॑न्न॒पसो॒ नवि॑ष्टौ।तवेदु॒ स्तोमं॑ चिकेत॥ ८.००२.१७
इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना॑य स्पृहयन्ति।यन्ति॑ प्र॒माद॒मत॑न्द्राः॥ ८.००२.१८
ओ षु प्र या॑हि॒ वाजे॑भि॒र्मा हृ॑णीथा अ॒भ्यस्मान्।म॒हाँ इ॑व॒ युव॑जानिः॥ ८.००२.१९
मो ष्वद्य दु॒र्हणा॑वान्सा॒यं क॑रदा॒रे अ॒स्मत्।अ॒श्री॒र इ॑व॒ जामा॑ता॥ ८.००२.२०
वि॒द्मा ह्य॑स्य वी॒रस्य॑ भूरि॒दाव॑रीं सुम॒तिम्।त्रि॒षु जा॒तस्य॒ मनां॑सि॥ ८.००२.२१
आ तू षि॑ञ्च॒ कण्व॑मन्तं॒ न घा॑ विद्म शवसा॒नात्।य॒शस्त॑रं श॒तमू॑तेः॥ ८.००२.२२
ज्येष्ठे॑न सोत॒रिन्द्रा॑य॒ सोमं॑ वी॒राय॑ श॒क्राय॑।भरा॒ पिब॒न्नर्या॑य॥ ८.००२.२३
यो वेदि॑ष्ठो अव्य॒थिष्वश्वा॑वन्तं जरि॒तृभ्य॑।वाजं॑ स्तो॒तृभ्यो॒ गोम॑न्तम्॥ ८.००२.२४
पन्य॑म्पन्य॒मित्सो॑तार॒ आ धा॑वत॒ मद्या॑य।सोमं॑ वी॒राय॒ शूरा॑य॥ ८.००२.२५
पाता॑ वृत्र॒हा सु॒तमा घा॑ गम॒न्नारे अ॒स्मत्।नि य॑मते श॒तमू॑तिः॥ ८.००२.२६
एह हरी॑ ब्रह्म॒युजा॑ श॒ग्मा व॑क्षत॒ सखा॑यम्।गी॒र्भिः श्रु॒तं गिर्व॑णसम्॥ ८.००२.२७
स्वा॒दव॒ सोमा॒ आ या॑हि श्री॒ताः सोमा॒ आ या॑हि। शिप्रि॒न्नृषी॑व॒ शची॑वो॒ नायमच्छा॑ सध॒माद॑म्॥ ८.००२.२८
स्तुत॑श्च॒ यास्त्वा॒ वर्ध॑न्ति म॒हे राध॑से नृ॒म्णाय॑।इन्द्र॑ का॒रिणं॑ वृ॒धन्त॑॥ ८.००२.२९
गिर॑श्च॒ यास्ते॑ गिर्वाह उ॒क्था च॒ तुभ्यं॒ तानि॑।स॒त्रा द॑धि॒रे शवां॑सि॥ ८.००२.३०
ए॒वेदे॒ष तु॑विकू॒र्मिर्वाजाँ॒ एको॒ वज्र॑हस्तः।स॒नादमृ॑क्तो दयते॥ ८.००२.३१
हन्ता॑ वृ॒त्रं दक्षि॑णे॒नेन्द्र॑ पु॒रू पु॑रुहू॒तः।म॒हान्म॒हीभि॒ शची॑भिः॥ ८.००२.३२
यस्मि॒न्विश्वा॑श्चर्ष॒णय॑ उ॒त च्यौ॒त्ना ज्रयां॑सि च।अनु॒ घेन्म॒न्दी म॒घोन॑॥ ८.००२.३३
ए॒ष ए॒तानि॑ चका॒रेन्द्रो॒ विश्वा॒ योऽति॑ शृ॒ण्वे।वा॒ज॒दावा॑ म॒घोना॑म्॥ ८.००२.३४
प्रभ॑र्ता॒ रथं॑ ग॒व्यन्त॑मपा॒काच्चि॒द्यमव॑ति।इ॒नो वसु॒ स हि वोळ्हा॑॥ ८.००२.३५
सनि॑ता॒ विप्रो॒ अर्व॑द्भि॒र्हन्ता॑ वृ॒त्रं नृभि॒ शूर॑।स॒त्यो॑ऽवि॒ता वि॒धन्त॑म्॥ ८.००२.३६
यज॑ध्वैनं प्रियमेधा॒ इन्द्रं॑ स॒त्राचा॒ मन॑सा।यो भूत्सोमै॑ स॒त्यम॑द्वा॥ ८.००२.३७
गा॒थश्र॑वसं॒ सत्प॑तिं॒ श्रव॑स्कामं पुरु॒त्मान॑म्।कण्वा॑सो गा॒त वा॒जिन॑म्॥ ८.००२.३८
य ऋ॒ते चि॒द्गास्प॒देभ्यो॒ दात्सखा॒ नृभ्य॒ शची॑वान्।ये अ॑स्मि॒न्काम॒मश्रि॑यन्॥ ८.००२.३९
इ॒त्था धीव॑न्तमद्रिवः का॒ण्वं मेध्या॑तिथिम्।मे॒षो भू॒तो॒ऽभि यन्नय॑॥ ८.००२.४०
शिक्षा॑ विभिन्दो अस्मै च॒त्वार्य॒युता॒ दद॑त्।अ॒ष्टा प॒रः स॒हस्रा॑॥ ८.००२.४१
उ॒त सु त्ये प॑यो॒वृधा॑ मा॒की रण॑स्य न॒प्त्या॑।ज॒नि॒त्व॒नाय॑ मामहे॥ ८.००२.४२