इ॒दं ह॑ नू॒नमे॑षां सु॒म्नं भि॑क्षेत॒ मर्त्य॑।आ॒दि॒त्याना॒मपू॑र्व्यं॒ सवी॑मनि॥ ८.०१८.०१

अ॒न॒र्वाणो॒ ह्ये॑षां॒ पन्था॑ आदि॒त्याना॑म्।अद॑ब्धा॒ सन्ति॑ पा॒यव॑ सुगे॒वृध॑॥ ८.०१८.०२

तत्सु न॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा।शर्म॑ यच्छन्तु स॒प्रथो॒ यदीम॑हे॥ ८.०१८.०३

दे॒वेभि॑र्देव्यदि॒तेऽरि॑ष्टभर्म॒न्ना ग॑हि।स्मत्सू॒रिभि॑ पुरुप्रिये सु॒शर्म॑भिः॥ ८.०१८.०४

ते हि पु॒त्रासो॒ अदि॑तेर्वि॒दुर्द्वेषां॑सि॒ योत॑वे।अं॒होश्चि॑दुरु॒चक्र॑योऽने॒हस॑॥ ८.०१८.०५

अदि॑तिर्नो॒ दिवा॑ प॒शुमदि॑ति॒र्नक्त॒मद्व॑याः।अदि॑तिः पा॒त्वंह॑सः स॒दावृ॑धा॥ ८.०१८.०६

उ॒त स्या नो॒ दिवा॑ म॒तिरदि॑तिरू॒त्या ग॑मत्।सा शंता॑ति॒ मय॑स्कर॒दप॒ स्रिध॑॥ ८.०१८.०७

उ॒त त्या दैव्या॑ भि॒षजा॒ शं न॑ करतो अ॒श्विना॑।यु॒यु॒याता॑मि॒तो रपो॒ अप॒ स्रिध॑॥ ८.०१८.०८

शम॒ग्निर॒ग्निभि॑ कर॒च्छं न॑स्तपतु॒ सूर्य॑।शं वातो॑ वात्वर॒पा अप॒ स्रिध॑॥ ८.०१८.०९

अपामी॑वा॒मप॒ स्रिध॒मप॑ सेधत दुर्म॒तिम्।आदि॑त्यासो यु॒योत॑ना नो॒ अंह॑सः॥ ८.०१८.१०

यु॒योता॒ शरु॑म॒स्मदाँ आदि॑त्यास उ॒ताम॑तिम्।ऋध॒ग्द्वेष॑ कृणुत विश्ववेदसः॥ ८.०१८.११

तत्सु न॒ शर्म॑ यच्छ॒तादि॑त्या॒ यन्मुमो॑चति।एन॑स्वन्तं चि॒देन॑सः सुदानवः॥ ८.०१८.१२

यो न॒ कश्चि॒द्रिरि॑क्षति रक्ष॒स्त्वेन॒ मर्त्य॑।स्वैः ष एवै॑ रिरिषीष्ट॒ युर्जन॑॥ ८.०१८.१३

समित्तम॒घम॑श्नवद्दु॒शंसं॒ मर्त्यं॑ रि॒पुम्।यो अ॑स्म॒त्रा दु॒र्हणा॑वाँ॒ उप॑ द्व॒युः॥ ८.०१८.१४

पा॒क॒त्रा स्थ॑न देवा हृ॒त्सु जा॑नीथ॒ मर्त्य॑म्।उप॑ द्व॒युं चाद्व॑युं च वसवः॥ ८.०१८.१५

आ शर्म॒ पर्व॑ताना॒मोतापां वृ॑णीमहे।द्यावा॑क्षामा॒रे अ॒स्मद्रप॑स्कृतम्॥ ८.०१८.१६

ते नो॑ भ॒द्रेण॒ शर्म॑णा यु॒ष्माकं॑ ना॒वा व॑सवः।अति॒ विश्वा॑नि दुरि॒ता पि॑पर्तन॥ ८.०१८.१७

तु॒चे तना॑य॒ तत्सु नो॒ द्राघी॑य॒ आयु॑र्जी॒वसे॑।आदि॑त्यासः सुमहसः कृ॒णोत॑न॥ ८.०१८.१८

य॒ज्ञो ही॒ळो वो॒ अन्त॑र॒ आदि॑त्या॒ अस्ति॑ मृ॒ळत॑।यु॒ष्मे इद्वो॒ अपि॑ ष्मसि सजा॒त्ये॑॥ ८.०१८.१९

बृ॒हद्वरू॑थं म॒रुतां॑ दे॒वं त्रा॒तार॑म॒श्विना॑।मि॒त्रमी॑महे॒ वरु॑णं स्व॒स्तये॑॥ ८.०१८.२०

अ॒ने॒हो मि॑त्रार्यमन्नृ॒वद्व॑रुण॒ शंस्य॑म्।त्रि॒वरू॑थं मरुतो यन्त नश्छ॒र्दिः॥ ८.०१८.२१

ये चि॒द्धि मृ॒त्युब॑न्धव॒ आदि॑त्या॒ मन॑व॒ स्मसि॑।प्र सू न॒ आयु॑र्जी॒वसे॑ तिरेतन॥ ८.०१८.२२