प्र स॒म्राजं॑ चर्षणी॒नामिन्द्रं॑ स्तोता॒ नव्यं॑ गी॒र्भिः।नरं॑ नृ॒षाहं॒ मंहि॑ष्ठम्॥ ८.०१६.०१

यस्मि॑न्नु॒क्थानि॒ रण्य॑न्ति॒ विश्वा॑नि च श्रव॒स्या॑।अ॒पामवो॒ न स॑मु॒द्रे॥ ८.०१६.०२

तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे॑ कृ॒त्नुम्।म॒हो वा॒जिनं॑ स॒निभ्य॑॥ ८.०१६.०३

यस्यानू॑ना गभी॒रा मदा॑ उ॒रव॒स्तरु॑त्राः।ह॒र्षु॒मन्त॒ शूर॑सातौ॥ ८.०१६.०४

तमिद्धने॑षु हि॒तेष्व॑धिवा॒काय॑ हवन्ते।येषा॒मिन्द्र॒स्ते ज॑यन्ति॥ ८.०१६.०५

तमिच्च्यौ॒त्नैरार्य॑न्ति॒ तं कृ॒तेभि॑श्चर्ष॒णय॑।ए॒ष इन्द्रो॑ वरिव॒स्कृत्॥ ८.०१६.०६

इन्द्रो॑ ब्र॒ह्मेन्द्र॒ ऋषि॒रिन्द्र॑ पु॒रू पु॑रुहू॒तः।म॒हान्म॒हीभि॒ शची॑भिः॥ ८.०१६.०७

स स्तोम्य॒ स हव्य॑ स॒त्यः सत्वा॑ तुविकू॒र्मिः।एक॑श्चि॒त्सन्न॒भिभू॑तिः॥ ८.०१६.०८

तम॒र्केभि॒स्तं साम॑भि॒स्तं गा॑य॒त्रैश्च॑र्ष॒णय॑।इन्द्रं॑ वर्धन्ति क्षि॒तय॑॥ ८.०१६.०९

प्र॒णे॒तारं॒ वस्यो॒ अच्छा॒ कर्ता॑रं॒ ज्योति॑ स॒मत्सु॑।सा॒स॒ह्वांसं॑ यु॒धामित्रा॑न्॥ ८.०१६.१०

स न॒ पप्रि॑ पारयाति स्व॒स्ति ना॒वा पु॑रुहू॒तः।इन्द्रो॒ विश्वा॒ अति॒ द्विष॑॥ ८.०१६.११

स त्वं न॑ इन्द्र॒ वाजे॑भिर्दश॒स्या च॑ गातु॒या च॑।अच्छा॑ च नः सु॒म्नं ने॑षि॥ ८.०१६.१२