त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा।त्वं य॒ज्ञेष्वीड्य॑॥ ८.०११.०१

त्वम॑सि प्र॒शस्यो॑ वि॒दथे॑षु सहन्त्य।अग्ने॑ र॒थीर॑ध्व॒राणा॑म्॥ ८.०११.०२

स त्वम॒स्मदप॒ द्विषो॑ युयो॒धि जा॑तवेदः।अदे॑वीरग्ने॒ अरा॑तीः॥ ८.०११.०३

अन्ति॑ चि॒त्सन्त॒मह॑ य॒ज्ञं मर्त॑स्य रि॒पोः।नोप॑ वेषि जातवेदः॥ ८.०११.०४

मर्ता॒ अम॑र्त्यस्य ते॒ भूरि॒ नाम॑ मनामहे।विप्रा॑सो जा॒तवे॑दसः॥ ८.०११.०५

विप्रं॒ विप्रा॒सोऽव॑से दे॒वं मर्ता॑स ऊ॒तये॑।अ॒ग्निं गी॒र्भिर्ह॑वामहे॥ ८.०११.०६

आ ते॑ व॒त्सो मनो॑ यमत्पर॒माच्चि॑त्स॒धस्था॑त्।अग्ने॒ त्वांका॑मया गि॒रा॥ ८.०११.०७

पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः।स॒मत्सु॑ त्वा हवामहे॥ ८.०११.०८

स॒मत्स्व॒ग्निमव॑से वाज॒यन्तो॑ हवामहे।वाजे॑षु चि॒त्ररा॑धसम्॥ ८.०११.०९

प्र॒त्नो हि क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑। स्वां चा॑ग्ने त॒न्वं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व॥ ८.०११.१०