इ॒यं वा॑म॒स्य मन्म॑न॒ इन्द्रा॑ग्नी पू॒र्व्यस्तु॑तिः।अ॒भ्राद्वृ॒ष्टिरि॑वाजनि॥ ७.०९४.०१

शृ॒णु॒तं ज॑रि॒तुर्हव॒मिन्द्रा॑ग्नी॒ वन॑तं॒ गिर॑।ई॒शा॒ना पि॑प्यतं॒ धिय॑॥ ७.०९४.०२

मा पा॑प॒त्वाय॑ नो न॒रेन्द्रा॑ग्नी॒ माभिश॑स्तये।मा नो॑ रीरधतं नि॒दे॥ ७.०९४.०३

इन्द्रे॑ अ॒ग्ना नमो॑ बृ॒हत्सु॑वृ॒क्तिमेर॑यामहे।धि॒या धेना॑ अव॒स्यव॑॥ ७.०९४.०४

ता हि शश्व॑न्त॒ ईळ॑त इ॒त्था विप्रा॑स ऊ॒तये॑।स॒बाधो॒ वाज॑सातये॥ ७.०९४.०५

ता वां॑ गी॒र्भिर्वि॑प॒न्यव॒ प्रय॑स्वन्तो हवामहे।मे॒धसा॑ता सनि॒ष्यव॑॥ ७.०९४.०६

इन्द्रा॑ग्नी॒ अव॒सा ग॑तम॒स्मभ्यं॑ चर्षणीसहा।मा नो॑ दु॒शंस॑ ईशत॥ ७.०९४.०७

मा कस्य॑ नो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य।इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम्॥ ७.०९४.०८

गोम॒द्धिर॑ण्यव॒द्वसु॒ यद्वा॒मश्वा॑व॒दीम॑हे।इन्द्रा॑ग्नी॒ तद्व॑नेमहि॥ ७.०९४.०९

यत्सोम॒ आ सु॒ते नर॑ इन्द्रा॒ग्नी अजो॑हवुः।सप्ती॑वन्ता सप॒र्यव॑॥ ७.०९४.१०

उ॒क्थेभि॑र्वृत्र॒हन्त॑मा॒ या म॑न्दा॒ना चि॒दा गि॒रा।आ॒ङ्गू॒षैरा॒विवा॑सतः॥ ७.०९४.११

ताविद्दु॒शंसं॒ मर्त्यं॒ दुर्वि॑द्वांसं रक्ष॒स्विन॑म्। आ॒भो॒गं हन्म॑ना हतमुद॒धिं हन्म॑ना हतम्॥ ७.०९४.१२