कु॒विद॒ङ्ग नम॑सा॒ ये वृ॒धास॑ पु॒रा दे॒वा अ॑नव॒द्यास॒ आस॑न्। ते वा॒यवे॒ मन॑वे बाधि॒तायावा॑सयन्नु॒षसं॒ सूर्ये॑ण॥ ७.०९१.०१
उ॒शन्ता॑ दू॒ता न दभा॑य गो॒पा मा॒सश्च॑ पा॒थः श॒रद॑श्च पू॒र्वीः। इन्द्र॑वायू सुष्टु॒तिर्वा॑मिया॒ना मा॑र्डी॒कमी॑ट्टे सुवि॒तं च॒ नव्य॑म्॥ ७.०९१.०२
पीवो॑अन्नाँ रयि॒वृध॑ सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः। ते वा॒यवे॒ सम॑नसो॒ वि त॑स्थु॒र्विश्वेन्नर॑ स्वप॒त्यानि॑ चक्रुः॥ ७.०९१.०३
याव॒त्तर॑स्त॒न्वो॒ याव॒दोजो॒ याव॒न्नर॒श्चक्ष॑सा॒ दीध्या॑नाः। शुचिं॒ सोमं॑ शुचिपा पातम॒स्मे इन्द्र॑वायू॒ सद॑तं ब॒र्हिरेदम्॥ ७.०९१.०४
नि॒यु॒वा॒ना नि॒युत॑ स्पा॒र्हवी॑रा॒ इन्द्र॑वायू स॒रथं॑ यातम॒र्वाक्। इ॒दं हि वां॒ प्रभृ॑तं॒ मध्वो॒ अग्र॒मध॑ प्रीणा॒ना वि मु॑मुक्तम॒स्मे॥ ७.०९१.०५
या वां॑ श॒तं नि॒युतो॒ याः स॒हस्र॒मिन्द्र॑वायू वि॒श्ववा॑रा॒ सच॑न्ते। आभि॑र्यातं सुवि॒दत्रा॑भिर॒र्वाक्पा॒तं न॑रा॒ प्रति॑भृतस्य॒ मध्व॑॥ ७.०९१.०६
अर्व॑न्तो॒ न श्रव॑सो॒ भिक्ष॑माणा इन्द्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः। वा॒ज॒यन्त॒ स्वव॑से हुवेम यू॒यं पा॑त स्व॒स्तिभि॒ सदा॑ नः॥ ७.०९१.०७